________________
[अ० २, सू० १८१-१८२.] सवृत्तिच्छन्दोऽनुशासनप्रद्योते 'भ्र[1]म[1] [1], स[1] खे[s]!, व[1]ज[1], य[s]त्र[1], सा[s],प्रि[1]या[s]' इति लक्षणसमन्वयः । अस्य नामान्तरमाह- वरतनुरित्यन्ये इति- अन्ये आचार्या इदं छन्दो वरतनुरित्याहुरित्यर्थः । अ० २, सू०-१८०.१ ॥
नौ रौ प्रमुदितवदना ॥१८१॥ यथा- स्खलितवचसि भर्तरि भृकुटिं, प्रियसखि ! घटयेत्यपि प्रेरिता । अविदितरसविभ्रमा बालिका, प्रमुदितवदना भवत्युन्मुखी ॥१८१.१ ॥ चञ्चलाक्षीत्यन्ये । गौरीत्यपरे ॥ १८१.१ ॥
लक्षितक्रमेण चतुर्विशं प्रकारमाह- नौ रो प्रमुदितवदनेति- नगणद्वयं रगणद्वयं च '1.1.SIS.SIS.' इतीहवर्णः कृताः पादा यस्य तत् प्रमुदितबदनानामकं जगतीजातिच्छन्द इत्यर्थः । उदाहरति- यथा- स्खलितवचसीति- प्रियसखि !, भर्तरि- स्वामिनि, स्खलितवचसि- प्रमादात् तवाह्यानेऽन्यनायिकाया नामप्रयोगं कुर्वाणे सति, भ्रूकुटिं- कटाक्षभङ्गं रचयविधेहि, इति शिक्षिता- उपदिष्टा अपि, अविदितरसविभ्रमा- अज्ञातरसविलासा, प्रमुदितवदना- प्रसन्नानना सती बालिका उन्मुखी भवति- उपर्यवलोकिनी भवति । अयमर्थ:- बाला प्रथमं मया ‘भर्ता यदि नामस्खलनं कुर्यात् तर्हि त्वं कोपप्रकाशनार्थ भ्रूकुटि रचयः' इति शिक्षिताऽपि अज्ञातप्रणयकोपरसास्वादतया, सति तथावसरे, हसन्ती प्रत्युर्मुखमवलोकते, न तु कोपप्रदर्शकं किमपि करोतीति । स्ख[1]लि[1]त[1][1]च[1]सि[1], भ[5]त [0] रि[1], भ्रू[s]कु[1]टिं[s]' इति लक्षणसमन्वयः ॥ अस्य नामान्तरे अपीत्याहचञ्चलाक्षीत्यन्ये, गौरीत्यपरे इति । अ० २, सू०-१८१॥
सा प्रभा छः ॥१८२।। ___ सा- प्रमुदितवदना, छः- सप्तभिर्यतिश्चेत् प्रमा नाम । यथा-प्रचुरविभवता नवं यौवनं, विमललवणिमा समग्राः कलाः । सकलमपि सखे! तदेतन्मुषा, यदि मृगनयना न हेमप्रभा ॥ १८२.१॥
लक्षितेषु पञ्चविंशं प्रकारमाह-सा प्रभा छैरिति । सूत्रं व्याख्याति- साप्रमुदितवदना, छः- सप्तभियंतिश्चेत प्रभा नामेति- गणविन्यासे यथा