________________
१६८
सवृत्तिच्छन्दोऽनुशासनप्रद्योते [अ० २, सू० १८०.] कलयतीति- हे नृप !- राजन् !, इयं- तव हस्ते विद्यमाना, असिलेखाकरबालयष्टिः, सैव नवमालिनी- नवीनस्वभावा मालाकारपत्नी, वैरिभूमिपतिलक्ष्मी- शत्रुराजलक्ष्मी, [कुसुमोधमूल्यत्वेन], कलयति- स्वीकरोति, तुभ्यंभवते, अनवद्यम्- निर्मलम् परिमलहारिकीर्तिकुसुमोघं- परिमलेन- सौरभेन, हारि- मनोहरं, कीर्तिकुसुमोघं- यशःपुष्पसमुहं, सपदि- शीघ्रमेव, ददातिवितरति । मालिन्या अयं स्वभावो यत्- यस्मात्, मूल्यं गृह्णाति तस्मै कुसुमानि ददाति, इयं च तेऽसिलेखारूपा काचित् नवीनैव मालिनी या रिपुनृपान्मूल्यरूपेण तदीयधनं गृह्णाति कीर्तिकुसुमसमूहं च तुभ्यं ददातीति भावः। 'क[1]. ल[1]य[1]ति[1], [s]रि[1] भू[s]मि[1][i]ति[1]ल[5]क्ष्मीम्[s]' इति लक्षणसमन्वयः ॥ अ० २, सू०-१७६ ॥
न्जो जौ मालती ॥१८०॥ नजजराः । यथा- भ्रमर ! सखे ! व्रज यत्र सा प्रिया, कथय दशामिति मे तदप्रतः । अभिनवपुष्पितरम्यमालती-, परिमलमुल्लसितं पिबाथवा ।। १८०.१॥ वरतनुरित्यन्ये ॥ १८०.१ ।।
लक्षितवृत्तक्रमेण त्रयोविशं प्रकारमाह- जो नौ मालनीति । अर्थमाहनजजराः इति- नगण-जगण-जगण-रगणाः 'm.si.si.sis' इतीदृशैरक्षरः कृताः पादा यस्य तत् मालतीनामकं जगतीजातिच्छन्द इत्यर्थः । उदाहरतियथा- भ्रमरेति हे सखे !- मित्र !, भ्रमर !- मधुप !, यत्र सा- प्रसिद्धा, प्रिया- मम दयिता, [तत्र] व्रज- गच्छ, तदग्रत:- तस्याः समीपे, मे- मम, इति- यथा त्वया दृष्टा तथा दशाम्- अवस्थां, कथय- ब्रूहि, अथवा [यदि त्वमपि स्वप्रियाविरहमसहिष्णुस्तहिं] अभिनवपुष्पितरम्यमालतीपरिमलम्अभिनवा- नूतना, पुष्पिता-पुष्पसमये [ऋतौ] स्थिता, कुसुमिता या मालतीस्वनामख्यातपुष्पजातिः, तस्याः परिमलं- सौरभम्, उल्लसितं- सोल्लासं यथा स्यात् तथा, पिब- आस्वादय, ईदशे हि समये प्रियां त्यक्त्वा गमनमनुचितमिति विचार्य पक्षान्तरमयमुपस्थापितवान् 'आत्मवत् सर्वभूतेषु यः पश्यति स पण्डितः" इति नीत्या यथाऽहं प्रियावियोगखेदमनुभवामि तथा अयमपि गमने खेदमनुभविष्यतीति विचार्य वा पक्षान्तरमिदमुपन्यस्तवान् ।