SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ १६६ सवृत्तिच्छन्दोऽनुशासनप्रद्योते [अ० २, सू० १७७.] प्रयोजनम् [ किन्तु ] रसभावभावितधियां - रसाश्च - भावाश्चेति तैः, भावितासंस्कृता धीर्येषां तथाविधानम्, अर्थवती- सार्थिका - प्रमिताक्षरा - स्वल्पाक्षराऽपि, रचना - कृतिः, वरं - प्रियाभवतीत्यर्थः । अस्य च्छन्दसो मात्रासमकवृत्तावन्तर्भावमाह - चित्रेयमिति - तृतीयाध्याये मात्रासमकप्रकरणे "नवमश्वचित्रा" । [ ६८ ] इति सूत्रम् । तदर्थ:- नवमो लघुश्चकारात् पञ्चमाष्टमी च [ लघू ] यत्र भवतः सा [ चतुभिः - चतुर्मात्रगणैः कृता ] चित्रेति, प्रमिता - क्षराऽपि चतुरचतुर्मात्रगणैविहिता - नवमपञ्चमाश्च लघवः सन्त्येवेति तत्राऽप्यस्यान्तर्भावः सुशकः, वर्णवृत्तेऽपि प्रस्तारान्तर्भूतत्वात् इहोक्त इति भावः । 'ब [ 1 ] हु [ 1 ]भि: [s], कि [s]मा[s]ल [1]ल [ 1 ]पि [1] तैः [s], कु [ 1 ] धि [ 1 ] यां[s]' इति लक्षणसमन्वयः, मात्रासमकलक्षणसमन्वयश्च तत्प्रकरण एव विज्ञेयः ॥ अ० २, सू० - १७६ ।। मौ यो वैश्वदेवी ङः ॥१७७|| रिति पश्चभिर्यतिः । यथा- जिष्णुवित्तेशो धर्मराजः प्रचेताः, ईश: श्रीनाथस्तेजसां धाम चेति । यत् त्वं प्रख्यातः श्रीचुलुक्यक्षितीश !, ब्रूमस्तेनेयं वैश्वदेवी तनुस्ते ।। १७७.१ ।। चन्द्रकान्तेत्यन्ये ॥ १७७.१ ।। 1 1 लक्षितेषु विंशं प्रकारमाह- मौ यौ वैश्वदेवी डंः इति । जैरित्यस्य सम्बन्धमाह - ङेरिति पञ्चभिर्यति रिति, तथा च भगणद्वयं यगणद्वयं च 'ऽऽऽ.ऽऽऽ.İऽऽ.Iऽऽ.' इत्येवं विन्यस्तैर्वर्णैः कृताः पादा यस्य तत् जगतीजाती वैश्वदेवीनामकं वृत्तमित्यर्थः । उदाहरति- यथा- जिष्णुवित्तेश इतिश्री लुक्यक्षितीश !- चुलुक्यवंशीयराजन् ! यत् - यस्मात् त्वं जिष्णु:विजयशीलः [ इन्द्रश्च ], वित्तेश:- धनस्वामी [ कुबेरश्च ], धर्मराज:- चर्तुविषस्य धर्मस्याधिष्ठाता शासको वा [ यमश्च ], प्रचेताः - प्रकृष्टचेतोयुक्तः [वरुणश्च ], ईश:- ऐश्वर्यवान् [शम्भुश्च ], श्रीनाथ :- लक्ष्मीपतिः [ विष्णुश्र्च ] तेजसां धाम - गृहम् [ सूर्यश्च ], इति प्रख्यातः- एभिर्नामभिः प्रसिद्ध:, तेन कारणेन, ते- तव, इयं तनुः- इदं शरीरम्, वैश्वदेवी- विश्वेषां देवानां सम्बन्धिनइति [a], ब्रूमः - कथयाम इत्यन्वयः । त्वं सर्वदेवमय इति भावः । अस्यनामान्तरमाह- चन्द्रकान्तेत्यन्ये इति । जि [s]ष्णु:[s], वि[s] ते [s]
SR No.023450
Book TitleChandonushasan
Original Sutra AuthorN/A
AuthorVijaylavanyasuri, Vijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1969
Total Pages460
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy