SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ [अ० २, सू० १७६.] सवृत्तिच्छन्दोऽनुशासनप्रद्योते तदा ललितेति- 'sI. I. Is1. sis' इतीदृशैरक्षरः पादविन्यासश्चेत् तदा ललितानामकं जगतीजातिच्छन्द इत्यर्थः। उदाहरति- यथा- ग्रामेब्रेतिहे पाप !- दुराचारिन् !, अत्र ग्रामे- विज्ञजनविरहिते प्रदेशे, कलहंसतांमरालतां [सतां कलहं च], दधत्- धारयन्, अपां- लज्जां, किं- कुतो, न धत्से- नानुभवसि ? हे अन्ध !- एकाक्षतया काणत्वसत्त्वेन एकत एव दर्शनात परतोऽन्धत्वं, तव स्पष्टमिति भावः, भाव्यता- विचार्यताम्, [यत्] रम्यं[हंसवत्] सुन्दरं, वपुः- शरीरं, ते- तव, नास्ति । मधुरं- कोमलं, श्रुतिसुखं वा, ते रुतं- शब्दः, नास्ति, किंच रे काकपाक !- वायसपोत !, वा- अथवा, ते ललिता- मञ्जुला, गति:- पादविक्षेपरीति, न अस्ति । काकपाकाऽन्योक्त्या कश्चिद् धूर्तस्वस्वरूपानभिज्ञ इव मूर्खसमाजे आत्मानं विज्ञं ख्यापयन् विज्ञतापरिचायकगुणहीनतां स्वस्य स्मार्यते। 'ग्रा[s]मे [s] [0], पा[s]प! [1], क[0] ल[1]ह[s]स[1]तां[s], द[1]धत्[s]' इति लक्षणसमन्वयः ॥ अ० २, सू०-१७५ ॥ स्जौ सौ प्रमिताक्षरा ॥१७६|| सजी सदयं च । यथा- बहुभिः किमाललपितः कुषियां, सरसाभिधेयघटनारहितः । रसभावमावितषियां हि वरं, प्रमिताक्षराऽपि रचनाऽर्थवती ॥ १७६:१ ॥ चित्रेयम् ॥ १७६.१ ॥ लक्षितक्रमाद् ऊनविंशं प्रभेदमाह- स्जौ सौ प्रमिताक्षरेति । अर्थमाहसजो सद्वयं चेति- सगण-जगणी सगणद्वयं च '...' इतीदृशैरक्षरः कृताः पादा अस्य तत् प्रमिताक्षरानामकं जगतीजातिच्छन्द इत्यर्थः । उदाहरति- यथा- बहुभिरिति । अत्र प्रकृतमुद्रितमुस्तके किमाललपि तैरिति मुख्यःपाठः, पाठभेदश्च- आलिलपितैरिति दृश्यते, सोऽपि नाधिकं सामञ्जस्यं वहति, नायं सख्योः परस्परालापविषयः, अपि तु विचारकगोष्ठीविषय एवेति प्रकृतमेव पाठमाहत्य व्याख्यायते, कुधियां- कुमतीनां जनानां, सरसाभिषेयघटनारहित:- सरसा:- रससहिता ये, अभिधेयाः- वाच्यार्थाः, तेषां घटनाविन्यासः, तेनरहितः, आल:- अलन्ति अर्थतो व्यभिचरन्तीति अलाः, त एव आलाः, आलानि च तानि लपितानि- भाषितानि, तैः, किम् ?- किमपि न
SR No.023450
Book TitleChandonushasan
Original Sutra AuthorN/A
AuthorVijaylavanyasuri, Vijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1969
Total Pages460
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy