________________
१६४
सवृत्तिच्छन्दोऽनुशासनप्रद्योते [अ० २, सू० १७५.] नगणात् परे भजराः इति, तथा च नगण-भगण-जगण-रगणाः '.sin. Ist. sis.' इतीदृशैरक्षरैः कृताः पादा यस्य तत् प्रियंवदानामकं जगतीजातिच्छन्द इत्यर्थः। उदाहरति- यथा-प्रणयतत्परमिति- हे सखिन !, प्रणयतत्परंकुतोऽपि कारणात् त्वया सह कलहे सत्यपि मदीयसत्प्रेरणया पुनः प्रणये तत्परं- पादपतनादिना तव परितोषाय उद्यतम्, इम- पुरोवत्तिनं, प्रियं प्रति मधुरं- प्रियवचनम्, आलप- कथय [इति] मयैव शिक्षिता- उपदिष्टा, असि, [ तथापि तदनादृत्य प्रतिकूलभाषिणीत्वम् ] यदि- चेत्, मधौ- वसन्ते, विधुरिता- तेन वियुक्ता सती, समदकोकिलारव:- मत्तकोकिलालापः, प्रियंवदा- अनुकूलभाषिणी भविष्यसि ? इत्येका व्याख्या, परा च- यदि विधुरिता अनेन प्रियेण विरहिता मधो वसन्ते समदकोकिलालाप:- उन्मत्तपरभृतिकाशब्दः प्रियंवदा भविष्यसि तहि [साम्प्रतमेव] मयैव शिक्षिता प्रणयतत्परमिमं प्रियं मधुरमालप । सखीति सम्बोधनेन हितोपदेशपात्रत्वम् व्यजयते । अयमाशय:- भग्ने वसन्ते समागते कोकिलशब्दं श्रुत्वा विप्रयोगदु:सहात्वं स्वयमेवेनं प्रति प्रियभाषिणी भविष्यसीति निश्चितम्, तथा च तव मानस्य किमपि मूल्यं न भविष्यति, साम्प्रतं च मदुपदेशानुल्लङ्घनीयताव्याजेन स्वयं पादप्रणतस्य प्रियस्योपरि कृपाविधानव्याजेन च यदि अनुकूलवादिनी भवसि तदा सर्वथा ते मानरक्षा जायत इति । नामान्तरमाह- मत्तकोकिलमित्यन्ये इति-केचिदन्ये इदमेवच्छन्दो मत्तकोकिलमिति व्यवहरन्तीत्यर्थः । प्र[1]ण[1] य[1]त[s] स्प[i][1]मि[1]म [s], स[1]खि![5] प्रि[1][s]' इति लक्षणसमन्वयः ॥ अ० २, सू०-१७४ ॥
ताल्ललिता ॥१७५॥ तगणात परे भजराश्चेत् तदा ललिता । यथा- प्रामेऽत्र पाप ! कलहंसतां बघा, बत्से अपां नहि किमन्ध ! भाव्यताम् । रम्यं वपुर्न मधुरं न ते रुतं, रे काकपाक ! ललिता न वा गतिः ॥ १७५.१ ।।
लक्षितक्रमेणाष्टादशं भेदमाह- ताल्ललितेति । तगणात्परे भजराश्चेत्