SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ [अ० २, सू० १७३-१७४.] सवृत्तिच्छन्दोऽनुशासनप्रद्योते एकाग्रता, स एव पयोधिः- समुद्रः, तत्र निमग्नम्, अदीनम्- अकृपणम्, अनीहं- निरभिलाषम्, अकाम- कामवर्जितम्, अवाम-निष्कपटम्, अनाधिमानसदुःखहीनं, मम मनः, हे जिनेन्द्र !, विभ्रमधाम- विलासावासं, न वाञ्छति, मौक्तिकदाम- मुक्ताहारं च न वाञ्छति, नामेति कोमलालापे। 'स[1]मा[s]धि[1]प[1]यो[s]धि[1]नि[1]म[s]ग्न[1]म[1]दी[s]न[1]' [म्कारस्यानिमपादस्थाकाराश्रितत्वान्नकारस्य न गुरुत्वम् ] इति लक्षणसमन्वयः ।। अ० २, सू०-१७२ ॥ मीः कल्याणम ॥१७३।। मीरिति मगणाश्चत्वारः। यथा- आदित्रष्टा यः सर्वेषां सन्मार्गाणां, प्रत्यादेष्टा यः पापानां त्रैलोक्येऽस्मिन् । तत्त्वज्ञानात् संसाराधेः प्रातः पारं, विश्यात् देवः श्रीनामेयः कल्याणं सः ॥ १७३.१॥ काञ्चनमिदमिति कश्चित् ॥ १७३.१॥ जगत्यां लक्षितक्रमेण षोडशं प्रभेदमाह- मी: कल्याणमिति । मीरित्यस्यार्थमाह- मगणाश्चत्वारः इति, तथा च 'sss.sss.sss.sss.' इतीदृशैर्वर्णः कृताः पादा यस्य तत् कल्याणं नाम जगतीजातिच्छन्द इत्यर्थः । उदाहरतियथा- आदिस्रष्टेति- यः सर्वेषां सन्मार्गाणां- सत्पथानाम्, आदिस्रष्टाप्रथमप्रवर्तकः, यः, अस्मिन् त्रैलोक्ये पापानां- दुष्कर्मणां पापाचारिणां च, प्रत्यादेष्टा- वारकः, तत्वज्ञानात् संसाराब्धेः पारं प्राप्तः स: श्रीनाभेयो देवः कल्याणं दिश्यात्- दद्यात्, इत्यन्वयः । 'आ[s]दि[5][5]ष्टा[s], यः[s], स[5][s]षां[s] स[s]न्मा[5][s]णां[s]' इति लक्षणसमन्वयः ॥ अस्य नामान्तरमाह- काश्चनमिदमिति कश्चिदिति ॥ अ० २, सू०-१७३ ॥ नाद् मज्राः प्रियंवदा ॥१७४|| नगणात् परे मजराः । यथा- प्रणयतत्परमिमं सखि ! प्रियं, मधुरमालप मयैव शिक्षिता। विधुरिता समदकोकिलारवर्, यदि भविष्यसि मयो प्रियंवदा ॥ १७४.१ ॥ मत्तकोकिलमित्यन्ये ॥ १७४.१ ॥ लक्षितक्रमेण सप्तदशं प्रकारमाह- नाद भत्राः प्रियंवदेति । व्याख्याति
SR No.023450
Book TitleChandonushasan
Original Sutra AuthorN/A
AuthorVijaylavanyasuri, Vijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1969
Total Pages460
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy