SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ सवृत्तिच्छन्दोऽनुशासनप्रद्योते [अ० २, सू० १७१-१७२.] रीः स्रग्विणी ॥१७॥ रोरिति रगणाचत्वारः । यथा- तारकामल्लिकामालिकामालिनी, चारचन्द्रप्रभाकेतकीशालिनी । भोगभाजां भुजंगेश्वराणां प्रिया, सेयमुज्जृम्भते शर्वरी स्त्रग्विणी ॥ १७१.१ ॥ पणिनीति भरतः ।। १७१.१ ।। लक्षितवृत्तानां क्रमेण चतुर्दशं वृत्तमाह-रीः स्रग्विणीति । अर्थमाहरीरिति चत्वारो रगणाः इति, तथा च 'sis. Is. sis. sis.' इतीदृशेरक्षरः कृताः पादा यस्य तत् स्रग्विणी नाम जगतीजातिच्छन्द इत्यर्थः। उदाहरति- यथा- तारकेति- तारकामल्लिकामालिकामालिनी- तारकाःनक्षत्राण्येव, मल्लिका:- कुसुमविशेषाः, तासां मालिका- पङ्क्तिः , सैव माला यस्याः सा, चारुचन्द्रप्रभाकेतकीशालिनी- चारुः- शोभना, चन्द्रप्रभव केतकीपुष्पविशेषः, तया शालते- शोभते तच्छीला, भोगभाजां- वनितासंभोगयुक्तानां, भोगिनां- फणावतां वा, भुजंगेश्वराणां- महाविटानां महानागानां वा, प्रिया-प्रेमास्पदम्, स्रग्विणी- माल्ययुक्ता, सा इयं शर्वरी- रात्रिः, उज्जम्भते- विकासं प्राप्नोति । 'ता[s]र[1]का[s]म[5]ल्लि[1]का[s]मा[s]लि[i]का[5]मा[s]लि[1]नी[s]' इति लक्षणसमन्वयः ।। अस्या नामान्तरमाह-पमिनीति भरतः इति, तथाहिद्वितीयं पञ्चमं चैव ह्यष्टमकादशे तथा। "पादे यत्र लघुनि स्युः पद्मिनी नाम सा मता ॥” इति [ भ० ना० . शा० १५२७४ ] । अ० २, सू०-१७१।।। जीर्मोक्तिकदाम ॥१७२|| जीरिति जगणाश्चत्वारः। यथा- समाधिपयोपिनिमग्नमदीन-मनीहमकाममवाममनाधि । जिनेन्द्र मनो मम वाञ्छति नाम, न विभ्रमधाम न मौक्तिकदाम ॥ १७२.१ ॥ लक्षितक्रमेण पञ्चदशं वृत्तमाह- जीौक्तिकदामेति । जीरित्यस्यार्थमाह- जगणाश्चत्वारः इति, तथा च 151. 1. 15. 15.' इतीदृशंरक्षरः कृताः पादा यस्य तत् मौक्तिकदामनामकं जगतीजातिच्छन्द इत्यर्थः । उदाहरति- यया-समाधिपयोषीति- समाधिपयोधिनिमग्न- समाधिः- मनस
SR No.023450
Book TitleChandonushasan
Original Sutra AuthorN/A
AuthorVijaylavanyasuri, Vijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1969
Total Pages460
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy