SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ [अ० २, सू० १७० . ] सवृत्तिच्छन्दोऽनुशासनप्रद्योते १६१ ' 151. ।। 5. II. ।। 5' इतीदृशैरक्षरः कृताः पादा यस्य षड्भिश्च यतियंत्र तत् जलोद्धतगतिनामकं जगतीजातिच्छन्द इत्यर्थः । उदाहरति- यथा - विकासिकुसुममिति - विकासिकुसुमं - प्रफुल्लपुष्पं, सदाफलयुतं - सर्वदा फलैर्युक्तं, निसर्गशिशिरं - स्वभावतः शीतलं, तटे- तीरे, विटपिनं वृक्षम्; निकामकलुषा - अत्यन्त पङ्किला, जलोद्धतगतिः- जलेन उद्धता - सदर्पा गतिर्यस्याः सा, इयं सरित् नदी, निपातितवती- अपातयत् हहा ? दुःखे । नदीवृक्षान्योक्या कयाचन दुश्चरित्रया कलङ्कितः सत्पुरुषः शोच्यते । 'वि [ । ] का [S]सि[1]कु[1]सु[1]मं[s], स[1]दा[1]फ[1]ल[1]यु[1]तं[s]' इति लक्षणसमन्वयः ॥ अ० २, सू० - १६६ ॥ भुजंगप्रयातम् ॥१७०॥ रिति चत्वारो यगणाः । यथा- न सूरिः सुराणां गुरुर्नासुराणां पुराणां निपुर्नापि नापि स्वयंभूः । खला एव विज्ञाचरित्रे खलानां, भुजंगप्रयातं भुजगा विदन्ति ॥ १७०.१ ।। अप्रमेयेति भरतः ।। १७०.१ ॥ लक्षितवृत्तानां क्रमसंख्यया त्रयोदशं प्रभेदमाह - योर्भुजङ्गप्रयातमिति । " समानेनैकादिः” [१-४] इति न्यायेनाह - योरिति चत्वारो यगणाः इति, यथा च - 'Iss. Iss Iss Iss. ' इतीदृशैरक्षरैः कृताः पादा यस्य तत् भुजङ्गप्रयातं नाम जगतीजातिच्छन्द इत्यर्थः । उदाहरति- यथा- न सूरिरिति - सुराणां देवानां मध्ये, सूरिः- विद्वत्वेन ख्यातो गुरुः, न असुराणां - दैत्यानां, गुरुः शुक्रः, न पुराणां - त्रिपुरस्य, रिपुः- शत्रुः शिवोऽपि न स्वयंभूःब्रह्म अपि न, [ किन्तु ] खलानां - कुटिलमतीनां चरित्रे - व्यवहारे, खला:कुटिलमतय एव विज्ञा:- विशेषेण ज्ञातार:, [ यथा - ] भुजङ्गप्रयातं - भुजङ्गानां गति, भुजङ्गाः - सर्पाः [ एव ], विदन्ति - जानन्ति । न [ 1 ], सू[5]रिः[5], सु[1]रा[s]णां[s], गु[1]रु[s]र्ना[s]सु[s]रा[s]णां[s]' इति लक्षणसङ्गतिः । अस्य नामान्तरमाह- अप्रमेयेति भरतः इति - तथाहि "आद्यं चतुथं दशमं सप्तमं च यदा लघु । पादे तु जागते यस्या अप्रमेया तु सा मता ।।" भ० ना० शा० १५।७२ ॥ अ० २, सू० - १७० ॥
SR No.023450
Book TitleChandonushasan
Original Sutra AuthorN/A
AuthorVijaylavanyasuri, Vijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1969
Total Pages460
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy