________________
१६०
सवृत्तिच्छन्दोऽनुशासनप्रद्योते [अ० २, सू० १६६.]
इयमनुरूपा ननु कुसुमेषो-जयति धनुः श्रीः कुसुमविचित्रा ।। १६८.१ ।। इयं मदनविकारा गजलुलितं वा अन्येषाम् ।। १६८.१ ।।
एकादशं [लक्ष्यमाणभेदेषु ] प्रभेदमाह - न्यौ न्यौ कुसुमविचित्रेति । न्यौ न्याविति व्याख्याति - नयनयाः इति - नगण - यगण - नगण - यगणाः ' ।।। ।ऽऽ. ।।। . iss' इतीदृशैरक्षरैः कृताः पादा यस्य तत् कुसुमविचित्रा नाम जगतीजातीच्छन्द इत्यर्थः । उदाहरति-यथा- सरसिजवक्त्रेति, सरसिजवक्त्रा - सरसिजं - कमलमेव वक्त्रं यस्याः सा, पक्षान्तरे - सरसिजमिव वक्त्रं यस्या: सेति, कुवलयनेत्रा कुवलयं - नीलकमलमेव नेत्रं यस्याः सा, पक्षान्तरे - कुवलयमिव नेत्रं यस्या: सेति, विकचजयोष्ठी - विकचा - विकसिता जपा- - अतिरिक्तकुसुमविशेष एव ओष्ठो यस्याः सा, पक्षान्तरे जपेव ओष्ठो यस्याः सा विचकिलदन्ता- विचकिलानिकुन्द कुसुमान्येव दन्ता यस्याः सा, पक्षान्तरे - विचकिलानीव दन्ता यस्या सेति, कुसुमविचित्रा - कुसुमैरन्यैर्नानाविधैः पुष्पैर्वि चित्रा - अद्भुता, [ उभयत्र ] इयंप्रत्यक्षदृश्यमाना, कुसुमेषो:- पुष्पबाणस्य, धनुः श्रीः- धनुषः शोभाभूता, धनुःश्रीखि ज्ञायमाना काचित् कामिनी वा, जयति - सर्वोत्कर्षेण वर्तते, ननुनिश्चितमित्यर्थः : । अत्रेयमिति प्रत्यक्षवाचकेन निर्देशात् काञ्चिदङ्गनामाश्रित्य कथने तस्या एव कामधनुषः शोभारूपताकथनेन सर्वेषां विशेषणानां पक्षान्तरे व्याख्यानम् । मुख्यवृत्त्या तु कामस्य पुष्पवाणत्वेन पुष्पविरचितावयवा वसन्त शोभैव कामस्य धनुःश्रीरिति समायाति । 'स[]र[1]सि [1]ज [1] [s]क्त्रा [S], कु[1]व[1]ल[s] [s]ने[s]त्रा[s]' इति लक्षणसमन्वयः । अस्या आचार्यान्तराभिमते नामान्तरे आह- इयं मदनविकारा गजलुलितं वाऽन्येषामिति - यथारुचि नाम्ना व्यवहार इति भावः ॥ अ० २, सू० - १६८ ॥
ज्सज्सा जलोद्धतगतिश्चः ॥१६६॥
जसजसाः । चैरिति षड्भिर्यतिः । यथा - विकासिकुसुमं सदाफलयुतं, निसर्गशिशिरं तटे विटपिनम् । निपातितवती हहा सरिदियं, निकामकलुषा जलोद्धतगतिः ।। १६६.१ ॥
लक्षितक्रमेण द्वादशं प्रकारमाह- ज्सज्सा जलोद्धतगतिश्चैरिति । व्याख्याति - जसजसाः । चैरिति षड्भिर्यतिरिति- जगण-सगण-जगण-सगणाः