SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ १५८ सवृत्तिच्छन्दोऽनुशासनप्रद्योते [अ० २, सू० १६६.] 'क्क भोगमाप्नोति न भाग्य भाग जनः' इत्युक्ते: प्रिय ! न तु स्वामिन् ! इति, [तेन च न केवलं तवाहमिति, त्वमपि मे प्रिय इति स्वस्यानन्याभिलाषिणीत्वं ध्वनयति ] नववयसि- नूतने तारुण्ये, वियुक्तानां- पतिविरहितानां, निराशानां- समये प्रियसंयोगाशारहितानां, योषितां- स्त्रीणां, [ सर्वासामेव स्त्रीणां कृतेऽयं प्रश्नो न तु केवलं ममैवेति योषितामिति बहुवचनेन ध्वनितम्, किञ्च न पुरुषाणां कृते ईदृशः प्रश्नः, तेषां सर्वत्र सर्वदा स्वातन्त्र्यात् ] का गतिःक: प्राणरक्षोपायः [इति ] कथम । कुत इयं विचारणा समुपास्थितेति चेदत्राहत्वमपि देशान्तरं- दूरप्रदेशं, न तु ग्रामान्तरं यतो झटिति प्रत्याववर्तनाशा स्यात्, गन्ता-कश्चिद् दिनर्भविष्य द्गमनः, [न तु साम्प्रतमेव, तेन च विचारावसरो व्यक्तः ] मेघव्यूहै:- मेघसमूहैः, गगनमपि ततं- व्याप्तम्, मेघेनैकेन गगनाच्छादनेऽपि कदाचित् तस्य [ मेघस्य ] गमनं सम्भाव्यते, यदा तु तेषां समूह एव व्यापकरूपेणागतस्तदा नास्ति झटित्यस्य दुःखकरस्य गमनमिति महानयं संकट उपस्थितः, अस्मात् रक्षोपायमवधार्य ततस्त्वया गन्तव्यमिति ध्वनिः॥ 'न[1]व[1] य[1]सि[1], वि[1]यु[s]क्ता[s]नां[s], यो[5]षि[1]तां[s]' इति लक्षणसंङ्गतिः ।। अ० २, सू०-१६५. ॥ नौ भ्रावुज्ज्वला ॥१६६॥ ननमराः । यथा- विनयितमनसोऽपि निरन्तरं, बत विदधतु किं नु विवेकिनः । नयनगतिरियं हि सुदुःसहा, चकितमृगशामहहोज्ज्वला॥१६६.१॥ चलनेत्येके ॥ १६६.१॥ नवमं प्रभेदमाह- नौ भावुजवलेति । नौ भ्राविति व्याख्याति-न-नभ-राः इति- नगणद्वयं भगण-रगणौ च ',m, sh, sis, इत्येवंप्रकारैरक्षरः कृताः पादा यस्य तत् उज्जवलानामकं जगतीजातिच्छन्द इत्यर्थः । उदा. हरति- यथा-विनयितमनसोऽपीति-निरन्तरं- सततं, विनयितमनसःविनम्रीकृतं- सन्मार्गे स्थिरीकृतं, वशीकृतं वा, मन:- चेतो येषां ताहशा अपि, विवेकिनः- युक्तायुक्तविवेकनिपुणाः, किं नु विदधतु- इतोऽधिकं किमेभिः कर्तु शक्यम्, तथापि यदि तेषां चेतोऽवशं भवति तत्रास्ति कारणान्तरमित्याह-हियतः, चकितमृगहशा- चकितानां- कुतोऽपि कारणाज्जाताशङ्कानां, मृगाणां
SR No.023450
Book TitleChandonushasan
Original Sutra AuthorN/A
AuthorVijaylavanyasuri, Vijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1969
Total Pages460
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy