________________
१५७
[अ० २, सू० १६४-१६५.] सवृत्तिच्छन्दोऽनुशासनप्रद्योते
नौ म्यौ पुटो जैः ॥१६४|| ननमयाः। जैरित्यष्टभिर्यतिः । यथा- तरललवणिमाम्भ:पूर्णकुम्भी, सुचरितफलपाकोलासवल्ली। सुतनु ! तव विराजत्यङ्गसंगा- नयनपुटनिपेया यौवनश्रीः ॥ १६४.१॥
सप्तमं प्रकारमाह- नौ म्यौ पुटो जैरिति । नौ म्याविति व्याख्यातिननमया इति, जैरित्यस्यार्थमाह- जैरित्यष्टभिर्यतिरिति । "त्र्यादिर्गादिः" [१-१७] इति सूत्रणात् गादयो वर्णाः क्रम शस्त्र्यादीनां संख्यानां बोधका इत्युक्तनयेन जकारास्याष्टसंख्यावाचकत्वादयमर्थः । तथा च नगणद्वयं मगणयगणौ च Isssss' इतीदृशैरक्षरैः कृताः पादा यस्य, अष्टभिश्च वर्णः प्रतिपादमध्ये विरामो यत्र तत् पुटो नाम जगतीजातिच्छन्द इत्यर्थः । उदाहरति- यथा- तरल लवणिमेति-हे सुतनु !- शोभनाङ्गि !, तरलंचञ्चलं, यल्लवणिमाम्भ:- लावण्यरूपं जलं, तेन पूर्णा कुम्मीव- घटीव, सुचरितफलपाकोल्लासवल्ली- सुचरितस्य- पुण्यस्य यत् फलं, तस्य पाक:परिपक्वत्वम्, उल्लास:- विकासश्चेति तयोः, वल्लीव- लतेव, नयनपुटनिपेया- नेत्राञ्जलिभिनिःशेषेण पातुं योग्या, यौवनश्रीः- तारुण्यशोभा, तवभवत्याः, अङ्गसङ्गात्- गात्रसम्पर्कात्, विराजति- विशेषेण शोभत इत्यर्थः । त[1][1]ल[1]ल[1]व[1]णि[1]मा[s]-भ:[s]पू[s]] [1] कु[s]म्मी[s]' इति लक्षणसमन्वय: ॥ अ० २, सू०-१६४ ॥
नौ म्रौ ततम ॥१६५।। ननमराः । यथा- नववयसि वियुक्तानां योषिता, प्रिय! कथय निराशानां का गतिः। त्वमपि सुभग!गन्ता देशान्तरं, गगनमपि च मेघव्यूहैस्ततम् ॥१६५.१॥
अष्टमं प्रभेदमाह- नौ सौ ततमिति । नौ म्राविति विवृणोतिननमराः इति- नगणद्वयं मगण-रगणौ च II, II, sss, sis' इत्येवंरूपर्वण: कृता: पादा यस्य तत् ततं नाम जगत्यां जाती छन्द इत्यर्थः। उदाहरतियथा- नववयसि इति- हे सुभाग !- सौभाग्यशालिन् ! [ एतेन संबोधनेन त्वं तु सर्वत्रापि स्वानुकूलान् भोगान् प्राप्स्यस्यैवैकाहमेव शोचनीयेति ध्वनयति