________________
सवृत्तिच्छन्दोऽनुशासनप्रद्योते [अ० २, सू० १६३.] कमिदमिति- तृतीयाध्याये- "अजमुखश्चीर्गन्तो नवमे ले मात्रासमकम्" [६५] इति सूत्रेण मात्रासमकं वर्णितम्, अत्रापि जगणो मुखे नास्त्येव, नवनमात्राया लधुत्वमप्यस्ति, चत्वारश्चतुर्मात्रगणा अपि सन्त्यैवेति तत्रान्तर्भावः सुशकः । नामान्तरस्यापि संभवादिह वर्णवृत्ते प्रकरणेऽपितदुक्तिः ॥ अ० २, सू०-१६२ ॥
नमभ्रा द्रुतविलम्बितम ॥१६३॥ यथा- परुषसान्द्रवचोरचनाञ्चिता, रुदितहासविलोलविलोचना। अवचनं कथयत्यतिरागिता, द्रुतविलम्बितचित्रगतैरियम् ॥ १६३.१ ॥ हरिणप्लुतमिति भरतः॥ १६३.१॥
षष्ठं प्रभेदमाह- नभभ्रा द्रुतविलम्बितमिति- नगण- भगण- भगणरगणाः 'm, II, II, sis' इतीदृशैरक्षरः कृताः पादा यस्य तत् द्रुतविलम्बितं नाम जगतीजातिच्छन्द इत्यर्थः । उदाहरति- यथा- परुषसान्द्रेति, परुषसान्द्रवचोरचनाञ्चिता- [ अत्र सान्द्रेत्यस्य स्थाने साद्रेति पाठः स्यात्, तर्हि अर्थप्रतीतो सामञ्जस्य मधिकं भवेत्, तथापि प्रकृतपाठमवलम्ब्यैव व्याख्यायते ] परुषाणि- रूक्षाणि, सान्द्राणि- श्लक्ष्णानि च, वचांसि तेषां रचनया-प्रयोगेण, अञ्चिता- पूजिता, रुदितहासविलोलविलोचना- रुदितं च हासश्च [कदाचित् रोदनम्, परतश्च झहित्येव हसनमिति भावः] ताभ्यां विलोलेचञ्चले, विलोचने- विशाले लोचने यस्याः सा इयम्, द्रुतविलम्बितचित्रगतैःद्रुतानि- झटिति विलम्बितानि- मन्दानि चेति द्रुतविलम्बितानि, तानि च चित्राणि गतानि द्रुतविलम्बितचित्रगतानि, तैः, अवचनं- कथनं विनैव यथा स्यात् तथा, अतिरागिताम्- अतिशयमनुरक्तात्वम्, कथयति- प्रकटयति । परस्परविरुद्धयोः परुषसान्द्रवचसोः, रुदितहासयोः, द्रुतगत- मन्दगतयोश्च प्रयोगेण नायके स्वकीयोऽनुराग एव दृढीक्रियतेऽनयेति भावः । 'प[1] रु[1]ष[1]सा[s]न्द्र[1]व[1]चो[5]र[1]च[1]ना[s]ञ्चि[1]ता[s]' इति लक्षणसमन्वयः । अस्यनामान्तरमाह- 'हरिणप्लुतमितिभरतः' इति, तथाहि
चतुर्थमन्त्यं दशमं सप्तमं च यदा गुरु । भवेद्धि जागते पादे तदा स्याद्धरिणप्लुता ॥” इति भ० ना० शा० १५।६८ ॥ अ० २, सू०-१६३ ॥