________________
[अ० २, सू० १६२.] सवृत्तिच्छन्दोऽनुशासनप्रद्योते
१५५ मनसः-सैहिकेयातू- राहोः, यद् भयं तेन, विह्वलमनसः- व्याकुलीकृतचित्ताः, दक्षमुनिसुताः- दक्षप्रजाप्रतिकन्याः सप्तविंशतितारकाः, नाममात्रमपि- राहोः नाम 'तमः' तन्मात्रमपि सोढुं- क्षन्तुम्, अपटव:- असमर्थाः सत्यः, चन्द्रवर्मआकाशम्, स्वप्रभाभिः- स्वीयप्रकाशः, हततमः- नष्टान्धकारं, रचयन्तिविदधति । तमसि नष्टे राहुरेव नष्ट इति ताराणां ज्ञानमिति भावः । 'मैं [s]हि[1] के [5]य[1]भ[1] य[1]वि[s] ह्व[1]ल[1]म[1]न[1]सः[s]' इति लक्षणसमन्वयः ।। अ० २, सू०-१६१ ॥
सीस्तोटकम ।।१६२॥ सोरिति चत्वारः सगणाः । यथा-परलोकविरुद्धकुकर्मरतं, बहिरार्जवमादधतं कुटिलम् । विषकुम्ममिवेद्धसुधापिहितं, त्यज मित्रमतोटकतंकगुणम् ॥१६२.१ ।। मात्रासमकमिदम् ॥ १६२.१ ॥
पंञ्चमं प्रकारमाह- सीस्तोटकमिति । "समानेनकादिः" [१-४] इति नियमादीकारस्य चतु: संख्यापरत्वेनाह- सीरिति चत्वारः सगणाः इति, तचा च ।।...|s.' इतीदृशवर्णः कृताः कृताः पादा यस्य तत् तोटकं नाम जगतीजातिच्छन्द इत्यर्थः । उदाहरति- यथा-परलोकेति । अत्र पद्ये त्यजमित्रमिति तुरीये पादे पाठोऽस्ति, क्वचिच्च त्यज भृत्यमिति पाठः, स एव च समीचीनः प्रतिभाति, मित्रशब्दस्य क्लीबत्वेन तद्विशेषणतया द्वितीये पादे 'आर्जवमादधतम्' इति पाठासङ्गतिः स्यात्, तथा च भृत्यमिति पाठमवलम्ब्यैव व्याख्यायते । परलोकविरुद्धकुकर्मरतं- परलोकः- स्वर्गादिः, तद्विरुद्धंतत्र हितानाधायकं, यत् कुकर्म- कुत्सिताचरणं, तत्र रतं- लग्नं, बहिःप्रत्यक्षम्, आर्जवम्-सरलत्वम्, आदघतं- धारयन्तं, [किन्तु अन्तः] कुटिलंवक्रम, इद्धसुधापिहितं- प्रदीप्ता- मृताच्छन्नं, विषकुम्भममिव- विषपूर्णघटमिव, अतोटेकतैकगुणं- कलहे सत्यपि कार्याच्छेदः- अतोहकता सेवाया अत्याग एव एकः- केवलो गुणो यस्य तादृशं मृत्यं त्यजवर्जयेत्यन्वयः । 'प[1][I]लो[5] क[1]वि[1] रु[s]घ[1]कु[1]क[s]म [1]र [1]तम्[s]' इति लक्षणसमन्वयः । सगणस्य चर्तुमात्रत्वेन चतुर्भिश्चतुर्मात्रगणेनिमित्त मात्रासमकवृत्तेऽप्यस्यान्तर्भावः कर्तुं शक्यत इत्याह- मात्रासम