________________
१५३
[अ० २, सू० १५६. ] सवृत्तिच्छन्दोऽनुशासनप्रद्योते श्वयः। तत् ते प्लवंगाधिपते ! किमुच्यते, हन्तेन्द्रवंशानुगुणं त्वया कृतम् ॥१५८.१॥
अथ जगतीजातिच्छन्दसां लक्षणान्युपक्रमते- जगत्यां तौ नाविन्द्रवंशेति, तौज्राविति विशदयति- ततजरा इति- तगणद्वयं जगण-रगणौ च 's1. ss1. IS1.11.' इत्येवंरूपर्वणः कृताः पादा यस्य तत् इन्द्रवंशानामकं जगतीजातिछन्द इत्यर्थः । उदाहरति- यथा- दारेष्विति-हे प्लवंगाधिपते!- वानेश्वरबालिन् ! यत् सुग्रीवकपीश्वरस्य सुग्रीवनाम्नः स्वानुजस्य वानराधिपतेः, दारेषुस्त्रियां, सहसा- हठात्, रागानुबन्ध- प्रणयसम्बन्धं, व्यपञ्चयः- व्यतनोः, तत् ते- तुभ्यं, किमुच्यते- किं साधुतयाऽसाधुतया वा वर्ण्यते, हन्त- इति खेदे, त्वया इन्द्रवंशानुगुणम्-इन्द्रपुत्रत्वात् तदीयचरितानुरूपं, कृतं-विहितम् । त्वत्पितापि परदाररतत्वेन ख्यात इति तद्वंश्यस्त्वं तदनुरूपमेवाचरितवानसीति भावः । 'दा[s]रे[5] [1], सु[s]ग्री[5]व[1]क [1]पी[5] श्व[1] [5] स्य[i], यत्[5]' इति लक्षणसमन्वयः ॥ अ० २, सू०-१५८ ॥
जतज्रा वंशस्थम ॥१५६।। यथा-पुरूरवो-नाहुषि-पूरवः पुरा, दधुर्धरां धारयतेऽधुना भवान् । अपूर्वमेतच्चरितं न तावकं, वदन्ति वंशस्थमिदं महोपते! ॥ १५६.१॥ वसन्तमारी, अभ्रवंशा चेत्यन्ये ॥ १५९.१॥
द्वितीयं प्रभेदमाह- जतजा वंशस्थमिति । जतज्रति- जगण-तगणजगण-रगणाः 'Isi, ssI, ISI, sis' इतीदृशैरक्षरः कृताः पादा यस्य तत् वंशस्थं नाम जगतीजातिच्छन्द इत्यर्थः । उदाहरतति-यथा-पुरूरवो-नाहुषि-पूरवः इति, पुरा- त्वत्तः पूर्वस्मिन् काले, पुरुखो- नाहुषि-पूरव:- पुरुरवाश्च, नहुषस्यापत्यं पुमान्- नाहुषिश्च, पुरुश्चेति ते, एते चन्द्रवंशीयाः पुराणप्रसिद्धा राजानः, धरां- पृथ्वीं, दधुः- धारयामासुः, अधुना-सम्प्रति भवान् धारयते। एतत्- तावकं- तव चरित्तम्, अपूर्वमद्भुतं न, इदं वंशस्थं- वंशक्रमागतं, वदन्ति- कथयन्ति । तव वंश्याः पूर्व राजानो यथा अनायासेन पृथिवीं पालयामासुस्तथा त्वमपि पालयसि, तदिदमन्येषां कृते यथा तथा वाऽस्तु, भवतः कृते तु कौलिको धर्म एष इति भावः । पु[1] रू[5]र[1]वो[5]ना[s] []षि