________________
१५२
सवृत्तिच्छन्दोऽनुशासनप्रद्योते [अ० २, सू० १५८.] प्राकृतेऽपि परजातिप्रस्तारेण सङ्करं दर्शयति- जे आवि मंदेत्ति- 'यश्चापि मन्देति गुरुं विदित्वा बाला इमे अल्पश्रुता इति ज्ञात्वा' इतिच्छाया। अत्र च प्रथमे पादे इन्द्रवज्रायाः, द्वितीये च वक्ष्यमाणंकेकिरवच्छन्दः । इत्थं च प्राचां मतेन परजातीयसङ्करेणापि उपजातिप्रयोगः आगमपुराणादिप्रसिद्ध इति दर्शितम् । भट्ट हलायुधस्तु पिङ्गलच्छन्दः- शास्त्रवृत्तौ स्वल्पभेदानामेकजातीयच्छन्दसामेव सङ्करस्योपजातित्वमिति षष्ठेऽध्याये प्रतिपादितवान् । तट्टिपणीकृता च भिन्नजातीनामपि सङ्कर इति नव्यमतत्वेन प्रतिषाद्य- "वस्तुतस्तु सर्वैरपिच्छन्द:शास्त्रकाररुपजातेः समवृत्ताधिकार एवाम्नानात् विषमाक्षरवृत्तमिश्रणस्याप्युपजातित्वेऽर्धसमविषमवृत्तेष्वतिव्याप्तेः “अत्रानुक्तं गाथा" [पिङ्गलसूत्र० ८।१] इति सूत्रवैयर्थ्यप्रसङ्गात्, छन्दोभङ्गदोषस्य निर्विषयत्वापत्तेश्च समाक्षरयोर्द्वयो मिश्रणमेवोपजातित्वमिति युक्तम् । तथा च रत्नाकरे- "इत्थं किलात्यास्वपि मिश्रितासु स्मरन्ति जातिष्विदमेव नाम ।" इति तल्लक्षणे इत्थं पदप्रयोगोऽपि स्वरसतः सङ्गच्छते । +++ + अत एव माण्डूक्योपनिषद्भाष्ये
"यो विश्वात्मा । विधिजविषयान् प्राश्य भौगान् स्थविष्ठान्, पश्चाच्चान्यान् स्वमतिविभवान् ज्योतिषा स्वेन सूक्ष्मान् । सर्वानेतान् पुनरपि शन; स्वात्मनि स्थापयित्वा, हित्वा सर्वान् विशेषान् विगतगुणगणः पात्वसौ नस्तुरीयः ।।"
इति शङ्करभगवत्पादीयशलोके "न च चतुर्थपादे वृत्तलक्षणाभावादासाङ्गत्यमाशङ्कनीथं गाथालक्षणस्य तत्र सुसंपादत्वात्" इत्यानन्दज्ञानोक्तिः । ++++ भागवतायुदाहरणानि त्वार्षत्वाल्लौकिके नातीवोपयुज्यन्ते । क्वचिल्लौकिके तथा दर्शनं तु दोष एवेति समाक्षरजातिवृत्त? द्वयमिश्रणमेवोपजातिरिति प्रचां मतमेव निर्बाधमिति प्रतिपादितम् ॥ इत्थमेकादशाक्षरपादायास्त्रिष्टुब्जातेस्त्रिशद् भेदा उक्ताः । प्रस्तारगत्या तु २०२८ भेदा भवन्ति । तदुक्तं भरतेन- "श्रेष्टुभे द्वे सहस्त्रे च चत्वारिंशत् तथाष्ट च ।" इति [भ.ना. शा. १४।५६.] ॥
जगत्यां तौ जाविन्द्रवंशा ॥१५८॥ ततजराः । यथा-दारेषु सुग्रीवकपीश्वरस्य यद्, रागानुबन्धं सहसा व्यप