________________
[अ० २, सू० १५७.] सवृत्तिच्छन्दोऽनुशासनप्रद्योते
१५१
मानः, एवं विसदृशप्रस्ताररूपाः परस्परभिन्नस्थापनाक्रमरूपाः स्वस्वपादा येषां तेषामित्यर्थः । किं गायत्र्या सह उत्कृत्या अपि सङ्करोऽभिमत इत्याशङ्कायामाह - स्वल्पभेदानामिति - नहि षडक्षरपादया गायत्र्या सह षड्विंशत्यक्षरपादाया उत्कृतेस्तत्सदृशाया वा अन्यस्या बहुभेदवत्या जातेः सङ्कर इह ग्राह्योऽपि तु स्वल्पभेदानामेवेति तथा चैकैकाक्षरैर्न्यूनाधिकानामेव सङ्करो ग्राह्यो न तु बहुभिरक्षरैर्न्यूनाधिकानामिति पर्यवसितम् । वृद्धा इत्यस्यार्थमाहबहुश्रुता इति - तथा च नात्र वयसा वृद्धत्वं ममामिप्रेतं, नवीना अपि श्रुतानेकपूर्वाचार्यव्यवहारा इह वृद्धा इत्युक्ता इति भावः ।
अथ समजातेविसदृशस्व प्रस्तारस्योपजातिमुदाहरति यथा- त्रिष्टुभः स्वप्रस्तारेणेति - एकादशाक्षरवृत्तजातेरेकादशाक्षरेणान्येनाकृतनाम्ना सह संकरो यथेत्यर्थः । कामे कमाहिँ इति दशवैकालिकसूत्रस्य द्वितीयाध्ययनगतपञ्चमगाथायाश्चरणद्वयमिदम्, सम्पूर्णगाथा चेत्थम् - आयावयाहि चय सोगमल्ल, कामे कमाहि कमियं खु दुक्खं ।
1
छिदाहि दोसं विणइज्जरागं, एवं सुही होहिसि संपराए ।
ग्रीष्मे आतपनां गृहाण, त्यज सुकुमारताम्, कामान् अतिक्राम, क्रमितं खलु दुःखम्, एवं सुखी भविष्यसि सम्पराये, इति भावः । अत्र प्रथम: पादस्त्रिष्टुब्जातीयोऽप्यकृतनामा, द्वितीयस्तु इन्द्रवज्जाया इति विज्ञेयम् ।। १५७।१ ।
एवमुदाहरणान्तरमप्याह- सक्कारए सिरसेति- सत्कारय शिरसा प्राञ्जलिकः कायेन गिरा भो मनसा च नित्यमितिच्छाया । अत्रापि प्रथमः पादोऽकृतनामा, द्वितीया - इन्द्रवज्याया इति त्रिष्टुभ एवात्र सङ्करः ।। १५७।२ ।।
इत्थं सजातीयप्रस्तारेण सङ्करमुदाहृत्य विजातीयप्रस्तारेण सङ्करमाहपरजातिप्रस्तारेण यथेति । युधिष्ठिर इति युधिष्ठिरः - प्रथमः पाण्डवः, धर्ममय:- धर्मप्रचुरः, धर्मस्वरूपो वा, महाद्रुमः, अर्जुन:- मध्यमपाण्डवः, अस्य- वृक्षस्य, स्कन्ध:- मूलशाखा, भीमसेनः - द्वितीयः पाण्डवः, अस्य वृक्षस्य शाखा - अचान्तरविटप:, माद्रीसुती - नकुल सहदेवी [अस्य ] समृद्धे पुष्पफले, कृष्णः, ब्रह्म, ब्राह्मणाश्च [ अस्य ] मूलमित्यन्वयः । अत्र प्रथमे पादे व शस्थम्, स्कन्ध इति द्वितीये पादे लयग्राही, तृतीये इन्द्रवज्जा, चतुर्थे च शालिनीति छन्छश्चतुष्टयस्य सङ्करः ।। १५७-३ ।।