________________
सवृत्तिच्छन्दोऽनुशासनप्रद्योते [अ०२, सू० १५७.]
समवृत्तत्त्वमप्यत्रास्त्येव, तथापि यद्यस्या विषमवृत्तत्वापृहस्तहिं लाघवार्थ:लघुनोपायेन तदुपदेशार्थ एवेह समवृत्तप्रस्तावे तदीयविचारोऽवसेयः, पृथगीदृशच्छन्दसो विचारे हि प्रकरणान्तरनिर्माणगौरवं स्यात् भवेच्च प्रयत्नाधिक्यमिति तत्परिहारायैवात्र तदुपन्यास इत्यर्थः ॥ अ० २, सू० - १५६ ।।
१५०
सर्वजातीनामपीति वृद्धाः ॥१५७॥
सर्वजातीनां मुक्तादीनां प्रायो गायत्र्यादीनां मितः परासां जगत्यादीनां कृतनामाकृतनामविसदृशप्रस्ताररूपस्वस्वपादानां स्वल्पमेदानां सङ्कर उपजातिरिति बहुश्रुताः प्राहुः । यथा त्रिष्टुभः स्वप्रस्तारेण -
कामे काहि कमियं खु दुक्खं, छिदाहि दोसं विणएज रागं ।। १५७.१ ।। तथा - सक्कारए सिरसा पंजलीओ, कार्यग्गिरा मो मणसा य निच्चं ।। १५७.२ ।। परजातिप्रसारेण यथा - युधिष्ठिरो धर्ममयो महाद्रुमः, स्कन्धोऽर्जुनो मोमसेनोser शाखा । मद्रीसुतौ पुष्पफले समृद्ध, मूलं कृष्णो ब्रह्म च ब्रह्मणाश्च ।। १५७.३ ।। जे आवि मंदेत्ति गुरुं विइत्ता, डहरे इमे अप्पसुएत्ति नञ्चा ।। १५७.४ ।। ११।३० ॥
इत्थं सजातीयानामेव सङ्करस्योपजातित्वं स्वमेतनोक्त्वा विजातीय वृत्तानामपि संकर उपजातिरिति केषांचित् - प्राचां मतमुपन्यस्यति - सर्वजातीनामपीति वृद्धाः इति । सूत्रं विवृणोति - सर्वजातीनामित्यादिना । सर्वजातीनामित्यस्यैव व्याख्यानम्— उक्तादीनामिति । उक्तादयः सुप्रतिष्ठान्ता जातयो न विशेषतो व्यवहारगोचरा इति मनसिकृत्याह - प्रायो गायत्र्यादीनामिति - ततः प्रारभ्यैव छन्दसां काव्यादिषु व्यवहारस्य दर्शनादिति भावः । मध्येऽस्य विचारस्य प्रस्तुतत्वात् किं गायत्र्या आरम्य त्रिष्टुप्पर्यन्तानामेव सङ्करविषयेऽयं विचार उत परतो वर्णितानामपीति शङ्कामपनुदन्नाह - इतः परासां जगत्यादीनामिति - इतः परासामपि जगतीमारम्य उत्कृतिपर्यन्तानां जातीनामिह सर्वजातीनामित्यनेन सङ्ग्रह इति भावः । ननु सर्वजातीनां प्रस्तारप्राप्ताः सर्वे भेदा नात्र नामधारं कथिता इति कथितानामेवेह ग्रहणमुताकथितानामपीत्याकाङ्क्षायामाह - कृतनामाकृतनामविसदृशप्रस्ताररूपस्व-स्वपादानामिति - कृतं निर्धारितं नाम येषां ते कृतनामानः, न कृतं नाम येषां तेऽकृतना