________________
[अ० २, सू० १५६. ] सवृत्तिच्छन्दोऽनुशासनप्रद्योते
१४६
अत्र प्रथमार्धे वंशस्थलक्षणमुत्तरार्धे इन्द्रवंशालक्षणमिति तयोः सङ्करः । जगत्युपजातिः - १२ ॥
त्रयोदशः प्रकारः ‘SIऽऽ' इत्येवं स्थापितश्चेत् तस्योदाहरणम्पद्म रनन्वीतवधूमुखद्युतो, गता न हंसैः श्रियमातपत्रजाम् ।
दूरेऽभवन् भोजबलस्य गच्छतः, शैलोपमातीतगजस्य निम्नगाः । शिशुपाल वध-१२-६१ ।
शैलोपमातीतगजस्य - पर्वत सादृश्यातिक्रान्तहस्तिनः गच्छतः - चलतः, भोजबलस्य - भोजराज सैन्यस्य, पद्मः - स्वीयकमलैः, अनन्वीत - वधूमुखद्युत:- अननुगतबलान्तर्गतवनिताकान्तस्यः, हंसै :- स्वचारिभिः कलहंसः, आतपत्र जां- छत्रसम्बन्धिनीं श्रियं - शोभां न गताः- न प्राप्ताः, निम्नगाःनद्यः, दूरेऽभवन् - दूरं प्रसृताः । अयं भावः - भोजराजबले याः भहानां स्त्रियतासांमुखेन नद्याः पद्मानि निर्जितानि, छत्रैहंसा निर्जिताः, गजैः शैला निर्जिता इति भीत्या नद्यः पलायिता इति सैन्यानि सुखेन पारं गतानीति । अत्र प्रथम- तृतीय- चतुर्थेषु पादेषु इन्द्रवंशालक्षणाम्, द्वितीये च वंशस्थलक्षणमिति तयोः सङ्करः ॥ जगत्युपजातिः - १३ ॥
चर्तुदशप्रकारस्य 'Iऽऽऽ' इत्येवं स्थापितस्योदाहरणं यथा
"
महाचमूनामधिपाः समन्नतः सन्नय सधः सुतरामुदायुधाः । तस्थुर्विन प्रक्षितिपालसङ्कुले तस्याङ्गणद्वारि बहिः प्रकोष्ठके ॥
,
[ कु० सं० १५६ ] तारकस्य प्रमाणसमये सुतराम् - अत्यन्तम्, उदायुधाः- उद्यतशस्त्राः, महाचमूनामधिपाः- महासेनापतयः समन्ततः- सर्वतः संनहय- सज्जीभूय, विनम्र क्षितिपालसङ्कुले - नम्रीभूतै राजभिर्व्याप्ते, तस्य - तारकस्य, अङ्गणद्वारि - अजिरद्वारभूमौ बहिः प्रकोष्ठ के - बाह्यालिन्दे, तस्थुः - स्थिता इत्यर्थः । अत्र प्रथमे पादे वंशस्थम्, द्वितियादिषु इन्द्रवंशेति तयोः सङ्करः । जगत्युपजातिः - १४ ॥
अत्र समवृत्त प्रकरणे विषमवृत्तस्योपजातेश्वर्चा किमर्थमित्याशङ्कायामाह - समवृत्तप्रस्तावेऽप्युपजातीनामुपन्यासो लाघवार्थः इति । अयमाशय:नेयमुपजातिः सर्वथा विषमवृत्तं, किन्तु समाक्षराणां सजातीयातामेव सङ्कररूपेति