________________
१४८
सवृत्तिच्छन्दोऽनुशासनप्रद्योते [अ० २, सू० १५६. ] न्तम्- अत्यन्तं, उत्तुङ्गतुरङ्गहेषितैः- अत्युच्चाश्वशब्दः, शतैः- अनन्तः, उद्दामदानद्विपबंहितः- उद्दामं निरतिशयप्रवृत्तं, दानं- मदो येषां तादृशा ये द्वियाः- हस्तिनः, तेषां हितैः- गजितः, चलवजस्यनन्दननेमिनिःस्वनैःचलन्तः- कम्पमाना ध्वजा येषां तादृशानि, यानि स्यन्दनानि तेषां नेमिनि:स्वनैः- चक्रप्रान्तभागशब्दः, नभः- आकाशं, निरुच्छवासं- निखकाशम्, अथ-किञ्च, व्याकुलं- व्याप्तं, अभूदित्यर्थः । अत्र प्रथम-तृतीयोः पादयोः वंशस्थम, द्वितीय-चतुर्थयोश्च पादयोरिन्द्रवंशाच्छन्द इति तयोः सङ्करः ॥ जगत्युपजातिः-१० ॥
एकादशः प्रकारः 's' इत्येवं स्थापितश्चेत् तस्योदाहरणं यथाश्रुत्वेति वाचं वियतो गरीयसी, क्रोधादहङ्कारपरो महासुरः। प्रकम्पिताशेषजगत्रयोऽपि स-नाकम्पतोच्चैदिवमभ्यधाच्च सः ॥
[कु० सं० १५॥३६ ] उभयोः पक्षयोः सेनासु परस्परं सन्नद्वासु देव कृते भर्त्सने तदुत्तरदानाय तारकस्योद्यतस्यावस्थावर्णनम् । वियत:- आकाशात्, इति- पूर्वोक्तां वाचं श्रुत्वा, क्रोधात्- कोपात, अहङ्कारपर:- गर्वोन्मुखः, महासुरः- तारकः, प्रकाम्पिताशेषजगत्रयः- प्रकम्पितं भीषितम्, अशेष- सम्पूर्ण, जगत्रयं येन तथाभूतः सन्नपि, उच्चैः- अतिशयम, आकम्पत- अभैषीत्, दिवम्- आकाशं प्रति, अभ्यधात् च- अब्रवीच्चेत्यर्थः । अत्र प्रथम-ततीय-चतुर्थेषु पादेषु इन्द्रवंशायाः, तृतीये वंशस्थस्य च लक्षणमिति तयोः सङ्करः ॥ जगत्युपजातिः-११ ।। द्वादशो भेदः ॥ऽ' इत्थेवं स्थापितश्चेत् तस्योदाहरणं यथाकटुस्वरः प्रालपताम्बरस्थिताः, शिशोर्बलात् षड्दिनजातकस्य किम् । श्वानः प्रमत्ता इव कातिके निशि, स्वरं वनान्ते मगधूर्तका इव ।।
[कु० सं० १५।४५] देवानां वचनं श्रुत्वा तारक उवाच- हे अम्बरस्थिता:- आकाशवर्तिनः, षड्दिनजातकस्य- षड् दिनानि जातस्य यस्य स षड्दिनजातः, स एव षड्दिनजातकः, तस्य, शिशोः- कार्तिकेयस्य, बलात्, कातिके निशि- कार्तिकमासीयरात्री प्रमत्ताः- श्वानः- कुक्करा इव, वनान्ते- वनमध्ये, मृगधूर्तका:शृगाला इव, स्वैरं- यथेच्छं, कटुस्वरैः किं प्रालपथ- प्रलापं कुरुथेत्यर्थः ।