SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ १४६ सवृत्तिच्छन्दोऽनुशासनप्रद्योते [अ० २, सू० १५६.] कस्य, पुर:- अग्रे, समेत्य- आगत्य, निर्ययु:- [वामेन] निष्क्रान्ताः । अत्र प्रथम-तृतीययोः पादयोरिन्द्रवंशा शेषयोश्च वंशस्थम् ॥ जगत्युपजा० ५।। षष्ठः प्रभेदः 'sss।' इत्थं स्थापितश्चेत् तस्योदाहरणम्अभ्याजतोऽभ्यागततूर्णतर्णकान्, निर्याणहस्तस्य पुरो दुधुक्षतः। वर्गाद् गवां हुंकृतिचारुनियंतीमरिर्मधौरक्षत गोमताल्लिकाम् ॥ [शिशुपालवघे १२।४१] द्वारकां गच्छतः श्रीकृष्णस्य यात्रायां शुभशकुनवर्णनप्रसंङ्गपद्यमिदम्, मघो:- तन्नामकस्य दैत्यस्य, अरि:- शत्रुः, श्रीकृष्णः, अभ्यागततूर्णतर्णकान्-दोहनसमये दोग्धारं दृष्ट्वा साम्प्रतमयं पयः पाययिष्यतीति प्रत्यांशया, अभ्यागताः- अभिमुखमुपगताः, तूर्णा:- त्वरया युक्ता ये तर्णकाः- वत्सास्तान्, अभ्याजत:- गोरभिमुखं प्रेरयतः, निर्याणहस्तस्य-बन्धनरज्जुकरस्य, दुधुक्षतःगां दोग्धुमिच्छतः, पुरुषस्य, पुर:- अग्रे, गवां वर्गात्- समूहात्, [ निःसृत्य ] हंकृतिचारु-हुमित्यव्यक्तमधुरो वत्सं प्रति स्नेहप्रकाशकः शब्दः, तत्करणेन चार-सुन्दरं यथा स्यात् तथा, निर्यतीं-दोहनस्थानमागच्छन्ती, गोमतल्लिकांश्रेष्ठां गाम्, ऐक्षत- अपश्यदित्यर्थः । अत्र पादत्रये तो जौ, चतुर्थे ज्तो वो इति संकरः ॥ जगत्युपजाति-६ ॥ सप्तमो भेदः Issi' इत्यं स्थापितश्चे? तस्योदाहरणम्न जामदग्न्य: क्षयकालरात्रिकृत्, स क्षत्रियाणां समराय वल्गति । येन त्रिलोकी सुभटेन तेन ते, कुतोऽवकाशः सह वि ग्रहग्रहे ॥ [कु० सं० १५१३७ ] कार्तिकेयेन सह योद्धमायान्तं तारकं प्रति देवानामुक्तिरियम् । क्षत्रियाणां क्षयकालरात्रिकृत्- क्षयार्था कालरात्रि:- कृष्णपक्षीया चर्तुदशीरात्रि:- क्षयकालरात्रिः, तां करोतीतितच्छीलः, जामदग्न्यः-परशुरामः, येन कार्तिकेयेन सह समराय- युद्धं कर्तुं, न वल्गति-न प्रौढीभवति, त्रिलोकी, सुभटेनत्रयाणां लोकानां समाहार:- त्रिलोकी, तस्यां सुमटेन- सर्वतः प्रधानेन वीरेण, तेन- कार्तिकेयेन सह, विग्रहग्रहे- युद्धस्वीकारे, ते- तव क्षुद्रदत्यस्य, कुतःकेन हेतुना, अवकाशः- संभावनेत्यर्थः । सर्वक्षत्रियान्त कृतः परशुरामस्यापि जेताऽयमित्यनेन सह का तव युद्धकथेति भावः । अत्र प्रथमे चतुर्थे च पादे वंशस्थलक्षणम्, द्वितीये तृतीये चेन्द्रवंशालक्षणमित्येतयोः संङ्करः॥जगत्युपजा-७॥
SR No.023450
Book TitleChandonushasan
Original Sutra AuthorN/A
AuthorVijaylavanyasuri, Vijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1969
Total Pages460
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy