________________
- [अ० २, सू० १५६.] सवृत्तिच्छन्दोऽनुशासनप्रद्योते १४५
तृतीयः प्रभेद: ॥' एवंस्थापितश्चेत् ? तस्योदाहरणं यथानिम्नाः प्रदेशाः स्थलतामुपागमन्, निम्नत्वमुच्चैरपिसवंतश्चते । तुरङ्गमाणां व्रजतां खुरः क्षताः, रथैर्गजेन्द्रः परितः समीकृताः ॥ कु० सं० १४१४४ ॥ [देवसेनाप्रयाणसमये] व्रजतां- गच्छतां, तुरङ्गमाणाम् - अश्वानां, खुरैः क्षताः, उच्चैः प्रदेशाः सर्वतः, निम्नत्वं- निचस्त्वम्, उपागमन्- प्राप्ताः, रथैः, गजेन्द्रः, परित:- सर्वतः, समीकृता:- निम्ना नीचाः प्रदेशाः, स्थलतां- सममूभित्वम्, उपागमन् इत्यर्थः । उच्चःस्थानस्य खुराधातान्समत्वं नीलम च रथगजः पूरणात् समत्वं जातमिति भावः । अत्र पूवासिलवंशाषा उत्तः राधं च वंशस्थस्येति सङ्करः ॥ जगत्युपजाति० ३॥ चतुर्थः प्रभेदः, 'usi' इत्यं स्थापितश्चेत् ? तस्योदाहरणम्-... परस्परं वज्रधरस्य सौनिकाः, द्विषोऽपि योद्धं स्वरोद्धतायुधाः। वैतालिक श्रावितमानसत्क्रमा-भिधानमीयुविजयैषिणो रण।
. ॥कु० सं०१५॥५२ ।। योद्ध- युद्धं कर्तु, स्वकरोद्धृतायुधाः- स्वकरः स्वहस्तैः, उद्धृतानि-धारितानि, आयुधानि यस्तथाभूताः, वज्रधरस्य- इन्द्रस्य, सैनिकाः, द्विषः-शत्रोस्तारकस्यापि [ सैनिकाः ] विजयेषिण:- स्वस्वविजयमिच्छन्तः, वैतालिकश्रावितमानसत्क्रमाभिधानं- वैतालिक:- स्वस्वचारणैः, श्रावितानि- श्रुतिपथं नीतानि, मानश्च सत्क्रमश्चेति भानसत्क्रमौ, तयोरभिघानानि- वार्ताः यस्मिन् तद् यथा स्यात् तथा, परस्परम्- अन्योन्यं प्रति, ईयुः- संगतानीत्यर्थः । अत्र प्रथम-द्वितीय-चतुर्थपादा वंशस्थस्य, तृतीय इन्द्रवंशायाः इति स्पष्टम् ॥ जगत्युपजातिः ४ ॥
पञ्चमः प्रभेदः 'sis' इत्थं स्थापितश्चेत् तदा तस्योदाहरणम्ऊर्वीकृतास्या रविदत्तदृष्टयः, समेत्य सर्वे सुरविद्विषः पुरः । श्वानः स्वरेण श्रवणान्तशातिना मिथो रुदन्तः करुणेन निर्ययुः ॥ कु० सं० १५।२४ ॥ [तारकासुरस्य युद्धयात्राप्रसंङ्गेऽपशुकनप्रस्तावे पद्यमिदम्] ऊर्वीकृतास्या:- आकाशोन्मुखाः, रविदत्तदृष्टयः- सूर्यावलोकिनः, मिथः- परस्परं, करुणेन- शोकेन, श्रवणान्तशतिना- कर्णान्तकष्टप्रदेन, स्वरेण- बुक्कनेन सह, रुदन्तः- अश्रु विसृजन्तः, सर्वेः श्वान:- कुक्कराः, सुरविद्विषः- सुरारेस्तार