SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ सुवृत्तिच्छन्दोऽनुशासनप्रद्योते [अ० २, सू० १५५ - १५६.] इत्थमेकादशाक्षरपादयोरिन्द्र वंशोपेन्द्र वंशयोः सङ्करे यथा उपजातश्चतुर्दश तथैव द्वादशाक्षरपादयोरिन्द्रवंशा-वंशस्थयोरपीति वृत्तौ प्रोक्तमेव, तदीया अपि दशभेदा ग्रन्थान्तरात् संगृह्य कथ्यन्ते । अत्रापि चतुष्पाद प्रस्तारस्य पूर्व एव क्रमः, द्विमात्रचिन्हेनेन्द्र वंशापादः, एकमात्रचिन्हेन वंशस्थपाद इत्यवगन्तव्यम् । तत्र 'SIII' एवं स्थापितस्य प्रथमस्य भेदस्योदाहरणं यथा किं बूथ रे व्योमचरा महासुराः स्मरारिसूनुप्रतिपक्षवर्तिनः । मदीयबाणव्रणवेदना हि साऽघुना कथं विस्मृतिगोचरी कृता ॥ १४४ [ कु० सं० १५।४० ] रे! स्मरारिसूनुप्रतिपक्षवत्तनः - स्मरारिसूनोः - कार्तिकेयस्य, प्रतिपक्षे-सपक्षे, [ अन्यत्र प्रतिपक्षशब्दस्य विपक्षपरत्वेन - प्रतिकूलः पक्ष इति व्युत्पत्तिमनुसृत्य प्रयोगेऽपीह न तदर्थे प्रयोगेऽपि तु प्रतिगतः पक्षमिति प्रतिपक्षोऽनुकूल एव ] वर्तन्त इति तादृशाः, महासुराः- महान्तो देवाः ! व्योमचराः ? आकाशस्थिता भवन्त किं ब्रूथ ? - किं कथयथ, सा- प्रसिद्धा, मदीयबालव्रणवेदना- मदीयबाणैः कृतानां व्रणानां वेदना, अधुना - सम्प्रति, कथं - केन प्रकारेण, विस्मृतिगोचरीकृता - विस्मृति पथमानीतेत्यर्थः । कार्तिकेयेन स योद्धुमागतं तारकं प्रति देवैः 'त्यजाशु गर्वाम्' इत्यादि कथितम्, तदुत्तरे प्रतिवचनमिदमिति तदनुरूपमेव व्याख्यातम् । अत्र प्रथमे तो जो शेषेषु ज्तो जावित्युभयोः संकरः । जगत्युपजाति० १ ॥ द्वितीयभेद: ' 15 || ' स्थापितश्चेत् तस्योदाहरणं यथा पुरोगतं दैत्यचम् महार्णवं दृष्ट्वाभितश्चक्षुमिरे महासुराः । स्मरारिसुनोर्न यनै ककोणके ममुर्महास्तस्यरणेऽवेहलया || [ कु० सं० १५ ] महासुराः- महान्तो देवाः, पुरोगतम् - अग्रतः स्थितम् दैत्यचनू महार्णवं - दैत्यसेनासमुद्रं दृष्ट्वा - अवलोक्य, अभितः - सर्वतः चुक्षुभिरे - कम्पिताः । भहा:- रिपुसैन्यानि तस्य स्मरारिसूनोः - कार्तिकेयस्य, नयनकोणके- नेत्ररूयैकस्मिन् प्रान्तभागे अवहेलया - तुच्छहृष्ट्या ममुः - मिताः । यान् मटान् दृष्ट्वा देवा भीताः, तान्, अनादरेण नेत्र कोणेन दृष्टंव कार्तिकेयस्तिरश्चकारेत्यर्थः । अत्र प्रथम-तृतीय- चतुर्थी पादा वंशस्थस्य द्वितीय इन्द्रवंशाया इति सङ्करः ॥ जगत्युपजाति -२ ॥
SR No.023450
Book TitleChandonushasan
Original Sutra AuthorN/A
AuthorVijaylavanyasuri, Vijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1969
Total Pages460
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy