SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ [अ० २, सू० १५५-१५६.] सवृत्तिच्छन्दोऽनुशासनप्रद्योते १४३ लासार्थ, यानि मण्डनानि- प्रसाधनानि, तेषां सम्पादयित्रीं- पूर्रायत्री, बलाहकच्छेदविभक्तरागां- बलाहकस्य- मेघस्य, ये छेदाः- खण्डनानि, तैविभक्तः- मध्ये च्छिन्नः, रागो- वर्णो यस्यास्तादृशीम्, अत एव अकालसन्ध्यामिव- सायंकालातिरक्तकाले, जातां सन्ध्यामिव, धातुमत्तां- धातव:स्वर्णादयः, सन्ति यस्य तस्य भावस्तत्तां, बिभर्ति- धारयति । विलासार्थमागतानामप्सरसां कृते मण्डनसाधनानि तत्र सुलभानीति भावः । अत्र पूर्वार्ध तौ जो गौ, उत्तरार्धे जतजा गाविति विवेकः ॥ उ० जा० १२॥ त्रयोदशप्रभेदस्य 'ऋद्धि'नामकस्य ।।'इत्येवं स्थापनीयस्योदाहरणं यथाप्रसन्नदिक पांसुविविक्तवातं, शसस्वनानन्तरपुष्पवृष्टि । शरीरिणां स्थावरजङ्गमानां, सुखाय तज्जन्मदिनं बभूव ।। [कु० सं० १।२३ ] प्रसन्नदिक्-प्रसन्ना:- प्रकाशा दिशो यस्मिन् तत्, पांमुविविक्तवातंपाँसुभि:-धूलिभिः, विविक्ता:- रहिता वाता यस्मिस्तत्, शङ्खस्वनानन्तरपुष्पवृष्टि-शङ्खस्वनस्य-कम्बुशब्दस्य, अननन्तरम्- अव्यवहितपश्चात्, पुष्पवृष्टिःकुसुमवर्षणं यत्र तत्, तज्जन्मदिनं- पार्वत्या जन्मदिवसः, स्थावर-जङ्गमानांजडचेतनानां, शरीरिणां- देहिनां, सुखाय- आनन्दाय, बभूवेत्यर्थः । अत्र द्वितीये पादे तो जो गौ, अन्यत्र जतजा गाविति विवेकः ।। उ० जा० १३ ॥ चर्तुदशप्रभेदस्य बुद्धिनामकस्य 'sus' इत्येवं स्थापनीयस्योदाहरणं यथा• अत्रोपजातिविविधा विदग्धः, प्रयोज्यते तु व्यवहारकाले । अतः प्रयत्नः प्रथमं विधेयो, भूपेन पुरत्नपरीक्षणाय ॥ भट्ट हलायुधः ॥ अत्र काव्यमार्गे, व्यवहारकाले- क्रयविक्रयव्यवहारे [च] विदग्धःचतुरः, विविधा- अनेकप्रकारा, उपजाति:- संकरजातिः [मण्यादेरपि सङ्करजातिर्भवति] प्रयोज्यते- व्यवह्रियते, अत:, भूपेन- राज्ञा, 'रत्नपरीक्षणायपुरुषरत्नपरीक्षार्थ, प्रयत्नः-प्रयासः, प्रथमं- सर्वतः पूर्वं विधेयः- कर्तव्यः । यथा काव्यमार्गे छन्दःसु विविधा उपजातयो भवन्ति तथा मणिष्वपि भवन्तीति किं पुरलम्, किंस्त्रीरत्नमिति, सम्यक् परीक्ष्य नृपस्तत्संग्रहः कार्य इति भाव । अत्र प्रथम-चतुर्थयोः पादयोरिन्द्रवज्रा, द्वितीय-तृतीययोश्चो पेन्द्रवज्रति विन्यासः ॥ उ० जा० १४ ॥
SR No.023450
Book TitleChandonushasan
Original Sutra AuthorN/A
AuthorVijaylavanyasuri, Vijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1969
Total Pages460
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy