________________
१४२ सवृत्तिच्छन्दोऽनुशासनप्रद्योते [अ० २, सू० १५५-१५६.]
अथोपजातेदंशमप्रभेदस्य भद्रानामकस्य 'sisi' इत्येवं स्थापितास्योदाहरणं यथा
"अस्त्युत्तरस्यां दिशि देवतात्मा, हिमालयो नाम नगाधिराजः । पूर्वापरौ तोयनिधी वगाह्य, स्थितः पृथ्व्यिा इव मानदण्डः ॥"
[कु० सं० १११ ] उत्तरस्यां दिशि देवतात्मा- देवस्वरूपः, पूर्वापरी- प्राच्य-पाश्चात्यो, तोयनिधी- समुद्री, वगाह्य- तयोरवगाहनं कृत्वा, स्थित:- मध्ये वर्तमानः, पृथ्व्यिाः - भूमेः, मानदण्ड:-परिमाणकाण्ड इव, हिमालयो नाम नगाधिराजःगिरीशः, अस्तीत्यर्थः । अत्र प्रथम-तृतीययोः- तो जो गौ; द्वितीय-चतुर्थयोश्च जतजा गो इति विवेकः । भद्रेव पिङ्गलछन्दःसूत्रे आख्यानकी कथिता, "आख्यानकी तो ज्गौ ग्, ज्तौ ज्गो ग्” [ पि० सू० ५।३७ ] इति सूत्रेण 'यस्याः प्रथमे पादे तो जो गौ, द्वितीये पादे ज-तजा गौ, च पूर्वार्धे, एवमुत्तरार्धेऽपि सा आख्यानकी ज्ञेयेति तदर्थः [ उ० जा०६] ॥ उपजातेरेकादशभेदस्य प्रेमानामकस्य ||si' इत्येवं स्थापितस्योदाहरणं यथा
"अनन्तरत्नप्रभवस्य तस्य, हिमं न सौभाग्यविलेपि जातम् । एको हि दोषो गुणसन्निपाते, निमज्जतीदुनोः किरणेष्विवाङ्कः ॥"
[कु० सं० ११३ ] अनन्तरत्नप्रभवस्य- असंख्यमणिसमुद्भवस्थानस्य, तस्य- हिमवतः, हिमंतुषारः, सौभाग्यविलोपि- सुभगत्वनाशकं, न जातं- नाभवत्, हि-यतः, इन्दोः- चन्द्रस्य, किरणेषु- रश्मिषु, अङ्कः- लाञ्छनम् इव, गुणसन्निपातेगुणसङ्घ, एकादोषः निमजति- प्रतीतिविषयतां न गच्छति न गण्यते वा । अतिशैत्यसत्वेऽपि हिमालय स्पृहणीय एवेति भावः । अत्र पूर्वऽधेचतुर्थे च पादे उपेन्द्रवज्रायाः तृतीये इन्द्र वज्रायाः न्यासः [उ० जा० ११] ॥ उपजाते द्वादशप्रभेदस्य रामानामकस्य ।। इत्येवं स्थापनीयस्योदाहरणं यथा
यश्चाप्सरोविभ्रमण्डनानां, सम्पादयित्रीं शिखरै बित्ति । बलाहकच्छेदविभक्तरागा- मकालसंध्यामिव धातुमत्ताम् ॥
[कु० सं० ११४] यश्च हिमालयः, अप्सरोविभ्रममण्डनानाम्- अप्सरसां विभ्रमार्थ- वि.