________________
[अ० २, सू० १५५-१५६.] सवृत्तिच्छन्दोऽनुशासनप्रद्योते १४१ धारयन्त्याः, भूधरराजपत्न्याः- पर्वतपतिभाया मेनकायाः, गर्भ:- सन्तानोत्पत्तिसंभावना, अभवदित्यर्थः । अत्र प्रथमे पादे तो जो गौ, द्वितियादिषु त्रिषु जतजा गौरिति विवेकः । यद्यपि चतुर्थे प्रथमाक्षरस्य संयोगपरत्वनिमित्तकं गुरुत्वं प्राप्तमिति स्थापनाप्रतिकूलता समायाति तथापि रसंयोगे गुरुत्ववर्जनात् समाधेयम् ॥ उ० जा० ७ ॥
अष्टमस्योपजातिभेदस्य बालानामकस्य ‘sssi' इत्येवंस्थापितस्योदाहरणं यथा
"यं सर्वशैलाः परिकल्प्य वत्सं, मेरी स्थिते दोग्धरि दोहदक्षे । भास्वन्ति रत्नानि महौषधीश्च, पृथूपदिष्टां दुदुहुर्धरित्रीम् ॥"
[कु० सं० १।२] सर्वशैला:- हिमवदतिरिक्ताः सर्वे पर्वता:, यं- हिमवन्तं, वत्सं- तर्णकं, परिकल्प्य- विधाय, दोहदक्षे- दोहनकार्यक्षमे, मेरो- तन्नामके पर्वते, दोग्धरिदोहकर्तरि, स्थिते सति, भास्वन्ति- प्रकाशमानानि, रत्नानि- मणीन्, महोषधीश्च, पृथूपदिष्टां- पृथुना राज्ञा गोत्वेन निर्दिष्टाम्, धरित्री- पृथ्वी, दुदुहुःनिःसारयामासुः, दुहेर्द्विकर्मकत्वात् पृथ्व्या अपि कर्मत्वम् । अत्र पादत्रये तो जो गौ, शेषे च जतजा गाविति विज्ञेयम् ॥ [उ० जा०६] उपजातेरष्टमप्रभेदस्य आर्द्रनामकस्य 'Issi' इत्येवं स्थापितस्योदाहरणं यथा"दिवाकराद् रक्षति यो गृहासु, लीनं दिवा भीतमिवान्धकारम् । क्षुद्रेऽपि नूनं शरणं प्रपन्ने, ममत्वमुच्चैःशिरसां सतीव ।।"
[कु० सं० १११२ ] य:- हिमालयः, दिवा- दिवसे भीतमिव- त्रस्तमिव, गृहासु- कन्दरासु, लीनं- छन्नम्, अन्धकारं- तमः, दिवाकरात्- सूर्यात्, रक्षति- स्थापयति, शरणं-स्वाश्रयं, प्रपन्ने- प्राप्ते, समागते, क्षुद्रेऽपि- नीचेऽपि जने, उच्चैःशिरसांउन्नतमस्तकानां जनानां, सतीव- सज्जन इव, ममत्वम् - आत्मीयताबुद्धिः । अस्य तथा गूढा गुहाप्रदेशाः सन्ति यत्र दिवसेऽपि अन्धकारस्तिष्ठत्येवेति विशेषार्थः, शरणागतस्य क्षुद्रस्यापि रक्षणं समुन्नता जनाः कुर्वन्त्येवेति सामान्येन समर्थितः । अत्र प्रथम-चतुर्थयोः पादयोर्जतजा गौ, द्वितीय-तृतीययोश्च तो जो गाविति विवेकः ॥ उ० जा० ६॥