________________
सवृत्तिच्छन्दोऽनुशासनप्रद्योत [अ० २, सू० १५५ - १५६.]
,
यस्मिन् - हिमालये, किराता:- वनेचराः मानवाः, हतद्विपानां- मारितगजानां, केसरिणां-सिंहानां, तुषारस्नुतिधौतरक्तं- तुषारस्य - हिमस्य स्तुत्याक्षरणेन, घौतं रक्तं- रुधिरं यस्य तादृशं पदं चरणाङ्कमदृष्ट्वापि नखरन्ध्रमुक्तै:नखच्छेदपतितः, मुक्ताफलैः - मौक्तिकैः, मार्ग - पन्थानं विदन्ति - जानन्ति । सिहहतं गजं दृष्ट्वा तद्धन्तुः सिंहस्यान्वेषणे प्रवृत्ताः किराताः शोणिताक्तपादचिह्न न तन्मार्गमनुसरन्तो हिमस्नुत्या रक्तस्य धौतत्वेन पादचिह्नालाभेऽपि हतगजमस्तकस्थसिंहपादनखलग्नमुक्ताफलानां मार्गे नखविकासात् पतितानां प्राप्त्या तेनैव तद्गमनमार्गं जानन्तीति भावः । अत्र प्रथम- तृतीययोःजतजा गौ, द्वितीयचतुर्थयोः - तौ जो गाविति || [ उ० जा० ५ ]
अयमाशय:
षष्ठस्योपजातिभेदस्य मायानामकस्य '115' इत्येवं स्थापितस्योदाहरणम् - "प्रसीद विश्राम्यतु वीर ! वज्रं शरैमंदीयैः कतमः सुरारिः । बिभेतुमोधीकृत बाहुवीर्यः स्त्रीभ्योऽपि कोपस्फुरिताधराभ्यः || ” [ कु० ३18 ] शिवं वशीकर्तुमाहुतस्याविदितकार्यस्य कामस्येन्द्रं प्रति स्वपराक्रम - ख्यापनपरं वाक्यमिदम्, हे वीर ! प्रसीद- आज्ञाप्रदानेन मामनुगृह्णीष्व, वज्र - कुलिशं [ तव प्रधानमस्त्रम् ] विश्राम्यतु- निर्व्यापार एव तिष्ठतु, कतमः - बहुषु क:, सुरारिः- देवशत्रुः, मदीयै:- मत्सम्बन्धिभिः शरैः - बाणैः, कोपस्फुरिताधराम्य:- कोपेन - क्रोधेन, स्फुरितं स्पन्दमानम्, अधरम् - अधरोष्ठो यासां ताभ्यः, स्त्रीयोsu - कामिनीभ्योऽपि बिभेतु- त्रस्यतु । यदि कश्चिदसुरस्तव प्रतिकूलतह स्वशरैरहतं स्त्रीणामपि वश्यं - वश्यं कर्तुं प्रभवामीति त्वया तद्विषये स्वास्त्र व्यापारो न कार्यं इत्यर्थः । अत्राद्यपादत्रये जतजा गौ शेषे च तौ जो गाविति लक्षणसंगति ॥ उ० जा ० ६ ॥
सप्तमस्योपजातिभेदस्य जायानामकस्य 'SI||' इत्येवं स्थापितस्योदाहरणं यथा"कालक्रमेणाथ तयोः प्रवृत्ते, स्वरूपयोग्ये सुरतप्रसङ्गे । मनोरमं यौवनमुद्वहन्त्या, गर्भोऽभवद् भूधरराजपत्न्याः || ”
[ कु० सं० १।२६ ] अथ- हिमवतो विवाहानन्तरं, कालक्रमेण - गच्छता कालेन तयो: - हिमवन्मेनकयोः, स्वरूपयोग्ये- उभयोरनुरूपे, सुरतप्रसङ्गे - रहःक्रीडाविलासे, प्रवृत्ते - समारब्धे सति मनोरमं चेतःप्रसादकं यौवनं - तारुण्यम्, उद्वहन्त्याः
१४०
"