________________
१३६
[अ० २, सू० १५५-५६.] सवृत्तिच्छन्दोऽनुशासनप्रद्योते इन्द्रवज्राया उत्तराधं चेति विन्यासः । तस्योदाहरणं यथा
"कपोलकण्डूः करिभिविनेतुं विघट्टितानां सरलद्रुमाणाम् । यत्र स्नुतक्षीरतया प्रसूतयाः सानुनि वायुः सुरभीकरोति ॥ [कुं० सं० ११६] यत्र- हिमालये, कपोलकण्डू:- गण्डस्थरवर्जूः, विनेतुं- शमयितुं, विधट्टितानां- घर्षितानां, सरलद्रुमाणां- देवदारुवृक्षाणां, स्नुतक्षीरतया- स्नुतंस्यन्दमानं क्षीरं यस्य तस्य भावस्तया, प्रसूतः- समुत्पन्नो गन्धः- आध्राणः, सानूनि- शिखराणि, सुरभीकरोति- सुगन्धयतीत्यर्थः । अत्र प्रथम-द्वितीययोः पादयोः जतजगणाः गुरुद्वयंच, तृतीय-चतुर्थयोः- तगणद्वयं जगणो गुरुश्चेति लक्षणसमन्वयः ॥ [ उ० जा० ३ ] ॥
चतुर्थस्य शालानामकस्य 'ssis' इत्येवं स्थापितस्य प्रथमार्च इन्द्रवज्रया, तृतीये पादे उपेन्द्र वज्रया, चतुर्थे पुनरिन्द्रवज्रयानिबद्धस्योदाहरणं यथा
"उद्वेजयत्यङ्गुलिपाणिभागान् मार्गे शिलीभूतहिमेऽपि यत्र । न दुर्वहश्रोणिपयोधरार्ता भिन्दन्ति मन्दां गतिमश्वमुख्यः ॥"
[कु० सं० १।११] यत्र- हिमालये, अङ्गुलिपाणिभागान्- अङ्गुलीनां-पादाङ्गुलीनां, पार्श्व. भागान्- प्रान्तान्, उद्वेजयति- पीडयति, शिलीभूतहिमे- शिलीभूतं शिलावस्था प्राप्त, हिमं यत्र तादृशेऽपि, मार्गे-पथि, दुर्वहश्रेणिपयोधरार्ताः- दुर्वहोस्थूलतया बोढुमशक्यौ, यो श्रोणी पयोधरौ च, तेषां भरेण आर्ता:- पीडिताः, अश्वमुख्य:- अश्यस्य मुखमिव मुखं यासां ता देवजातिविशेषस्त्रियः, मन्दां गति- शनैर्गमनक्रम, न भिन्दन्ति- न विच्छिन्दन्ति । यद्यपि हिममये मार्गे शत्यात् पादयोः पीडा भवतीति क्षिप्रगत्या तन्मार्गलङ्घनप्रयत्नः स्वभावप्राप्तस्तथापि श्रोणि-पयोधरयोः [ नितम्बकुचयोः ] दुर्वहत्वेन क्षिप्रगतेराश्रयितुमसामर्थ्यात् ता मन्दमेव गच्छन्तीत्यर्थः ।। अत्र तृतीयपादवर्जमिन्द्रवज्रया, तृतीये चोपेन्द्रवज्रया निबन्ध इति स्पष्टम् ॥ [ उ० जा० ४ ] ॥
पञ्चमस्य हंसीनामकस्य 'Isis' इत्येवं स्थापितस्य प्रथमतृतीययोरूपेन्द्रवज्रया, द्वितीयचतुर्थयोश्चेन्द्रवज्रया निर्मितस्योदाहरणं यथा
"पदं तुषारस्नुतिधौतरक्तं यस्मिन्नदृष्ट्वापि हतद्विपानाम् । विदन्ति मार्ग नरवरन्ध्रमुक्त-मुक्ताफलः केसरिणां किराताः ॥"
[कु० सं० ११६]