________________
१३८ सवृत्तिच्छन्दोऽनुशासनप्रद्योते [अ० २, सू० १५५-१५६.] अभिनवार्थलाभे- नूतनवस्तुप्राप्ती, गुणोज्ज्वलेष्वपि- [प्राचीनेषु वस्तुषु पूर्वापेक्षयां ] गुणसमृद्धेष्वपि, अकृतादरा:- अकृतबहुमानाः, स्यु:- भवेयुः, तत्रार्थान्तरन्यासमाह-हि- यत:, मधुप:- भ्रमरः, कुन्दं- नवीनं माध्यपुष्पं, अवाप्यप्राप्य, गतोपजातिभ्रमणामिलाष:- गतः- नष्टः, उपजातिषु- जातिजातीयकुसुमप्रभेदेषु, भ्रमणस्य, अभिलाष:- स्पृहा यस्य तथा भूतो जज्ञे इत्यर्थः । भ्रमरो यथा नवविकसितं कुन्दं दृष्ट्वा प्राचीनेषु कुन्दापेक्षयाधिकसुरभिष्वपि, उपजातिपुष्पेषु आदरहीनो भवति तथा पुरुषा अपि नूतनां नायिकां प्राप्य गुणवतीमपि पूर्वामनाद्रियन्त इति भावः । लक्षणसमन्वयश्च 'प्रथमपादे इन्द्र वज्रावत् शेषेधूपेन्द्रवज्रावत् ज्ञेयः । १५६।१ । ___ प्रथममुपजातिभेदं स्वयमुदाहृत्य ग्रन्थगौरवभिऽन्येषामुदाहरणमादिशतिएवमन्येष्वप्युदाहार्या:- यथेदमाद्योपजातिभेदस्योदाहरणमुपन्यस्तं तथा शेषेष्वपि त्रयोदशभेदेषूदाहरणानि स्वयमेवन्वेषणीयानीति भावः ॥ अ० २, सू०-१५६ ॥
तदिह शिष्टानां त्रयोदशभेदानामुदाहरणानि ग्रन्थान्तरत् संगृह्य लिख्यन्ते व्याख्यायन्ते च । तथाहि- उपेन्द्रवज्रायाः प्रथमः पादः, द्वितीय इन्द्रवज्रायाः शेषावुपेन्द्र वज्राया इति 'siss' संकेतितो द्वितीयो भेदो वाणीनामा यथा
"यः पूरयन् कीचकरन्ध्रभागान् दरीमुखोत्थेन समीरणेन । उद्गास्यतामिच्छति किन्नराणां तानप्रदायित्वमिवोपगन्तुम् ॥"
[ कु० संभव० १।८ ] यः- हिमालयः, दरीमुखोत्थेन- दरी- गुहैव, मुखं तस्मादुत्थितेन- निर्गतेन, समीरणेन- वायुना, कीचकरन्ध्रभागान्- कीचकानां वायुप्रेरणेन स्वनतां वंशानाम्, रन्ध्रभागान्- छिद्र प्रदेशान्, पूरयन्, उद्गास्यतां- करिष्यमाणगानानां, किन्नराणां- किम्पुरुषाख्यदेवविशेषाणां, तानप्रदायित्वं- गानाम्भात् पूर्वमेव तदनुकूलस्वरमूर्च्छना तानस्तस्य प्रदायी- दाता, तस्य भावस्तत्, उपगन्तुंलब्धुम् इव, इच्छति- अभिलषति । अंत्र प्रथमे तगणद्वयं जगणो गुरुश्च, द्वितीये जगण-तगण-जगणाः गुरुद्वयम्, तृतीयचतुर्थयोश्च पुनः- तगणद्वयं जगणो गुरुद्वयं चेति लक्षणसमन्वयः [ उपजाति-२ ] ॥ .. तृतीयस्य मालानामकस्योपजातिभेदस्य ॥s' यत्रोपेन्द्र वज्रायाःप्रथमार्धम्,