________________
सवृत्तिच्छन्दोऽनुशासनप्रद्योत [अ० २, सू० १५५ - १५६.]
"
वासववज्रताडितस्य तस्य, क्षोणीभुजः- राज्ञः, अवश्यम् - निश्चितं पातःपतनं भवति - जायते । पुण्यात्मनां प्रतीपाचरणं राजभिः परिहर्तव्यमिति भाव: । 'स्व [5] स्वा[5]ग[1]मा[s]चा[s]र [1] [1] [s] []णा [s]नां[s]' इति लक्षणसमन्वयः ॥ अ० २, सू० - १५४ ॥
१३६
जतजा गावुपेन्द्रवज्रा ।। १५५ ।।
यथा - दधासि धात्रीं विदधासि दुष्ट, क्षमाभृतां निर्दलनं प्रसह्य । कुमारपाल ! क्षितिपाल ! कस्त्वम् - उपेन्द्रवज्रायुधयोस्तदत्र ॥। १५५.१ ।।
अष्टाविशं प्रकारमाह- जतजा गावुपेन्द्रवज्येति- जगण-तगण-जगणाः गुरुद्वयं च, 'Ist.ssi. ist ss. ' इतीदृशैरक्षरैः कृताः पादा यस्य तत् उपेन्द्रवज्रानामकं त्रिष्टुब्जातिच्छन्द इत्यर्थः । उदाहरति- यथा- दधासीति, धात्रीं - पृथ्वीं, दधासि - धारयसि दुष्टक्षमाभृतां - दुष्टराजानां दुष्टपर्वतानां च, प्रसहय - हठात् निर्दलन - संमर्दनं विदधासि करोषि [ तत्] हे कुमारपाल ! - तन्नामक !, क्षितिपाल ! - राजन् ! त्वं भवान्, अत्र- - संसारे, उपेन्द्रवज्रायुषयोः - उपेन्द्रः - विष्णुः, वज्रायुधः - इन्द्रः, एतयोर्मध्ये, क: ?, पृथ्वीधारणं विष्णोः कार्यं, क्षमाभृन्निर्दलनं चेन्द्रस्य कार्यं, त्वं चोभयमपि करोषीति तयोर्मध्ये त्वं क इति जिज्ञासा जायत इति भावः ! 'द [ 1 ]धा [ 5 ]सि [ 1 ]धा [5] श्री [S]वि[1]द [1]धा [s]सि [s] ' [ पादन्तस्य गुरुत्वात् ] इतिलक्षणसमन्वयः ॥ अ०-२, सू० -१५५ ।।
एतयोः परयोश्च संकर उपजातिश्चतुर्दशधा ॥१५६॥
एतयोरिन्द्रवज्रोपेन्द्रवज्रयोः संकरोऽन्योन्यपादमीलनमुपजातिः । सा च प्रस्तारभेदाच्चतुर्दशषा । एवं परयोरिन्द्रवंशा-वंशस्थयोः संकर उपजातिश्चतुर्दशव | स्थापना SIII, III, SII, ISI SISI, ISSI, SSSI, IIIS, SIS, ISIS, SSIS, VISS, SISSI, Iऽऽऽ. आद्यभेदोदाहरणं यथा- प्रायः पुमांसोऽभिनवार्य लाभे, गुणोज्ज्वलेष्वप्यकृतादराः स्युः । अवाप्य कुन्दं मधुपो हि जज्ञे, गतोपजातिभ्रमणाभिलाष: ।। १५६.१ ।। एवमन्येष्वप्युदाहार्याः । समवृत्तप्रस्तावेऽप्युपजातीनामुपन्यासो लाघवार्थः ।। १५६.१ ।।
अथात्र त्रिष्टुब्जातवेव सङ्कररूपामुपजातिमुदार्हतुमाह- एतयोः परयोश्च