SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ १३५ [अ० २, सू० १५४.] सवृत्तिच्छन्दोऽनुशासनप्रद्योते कथम् । त्रिवलीतरंगजुषः स्युन चेद्, रससारसारणयः सुभ्रवः ॥ १५३.१ ॥ षड्विशं प्रकारमाह- सज्या ल्गो सारणीति । सज्या ल्गावित्यस्यार्थमाह-सजयलगाः इति- सगण-जगण-यगणा लघुगुरू च, 's. Is1. Iss. Is.' इतीहरिक्षरैः कृताः पादा यस्य तत् सारिणीनामकं त्रिष्टुब्जातिच्छन्द इत्यर्थः । उदाहरति-यथा-मदन इति, त्रिलोचनभालाग्निना-त्रिलोचनस्यत्रिनेत्रस्य शिवस्य, भालाग्निना- ललाटपावकेन, ज्वलितः- दग्धः, मदन:कामः, इह- संसारे, क्षणात्- अचिरादेव, कथं- केन प्रकारेण, जीवेत्पुनः प्राणान् धारयेत्, चेत्- यदि, त्रिवलीतरङ्ग जुष:- त्रिवली- उदरमध्यस्थरेखात्रयम् एव तरङ्गाः तान्- जुषन्ते- दधतीति ताः, रससारसारणय:- रसेषु सारः शृङ्गारः, तस्य सूचिकाः, अन्यत्र रसं- जलमेव सारः, तस्य प्रवाहिकाः, नद्यः इव], सुभ्रवः- शोभनभृकुटयः स्त्रियः, न स्यु:- न भवेयुः । अत्र कामस्य दाहानन्तरमेव । पुनरुज्जीवनं स्त्रीषु नदीत्वारोपेण समर्थितम्, नद्यो हि जलं प्रवहन्त्यो दग्धं वस्तु यथा जीवयन्ति तथा कामिन्योऽपि दग्धं मदनं जीवयन्ति । नद्यो हि तरङ्गवत्यस्तथा स्त्रियोऽपि वलिमध्याः, नद्यो रसस्य[जलस्य] प्रवाहिकाः, स्रियोऽपि रसस्य [शृङ्गारस्य] प्रवाहिका इत्युभयोः साम्यम् । 'म[1]द[1]न:[s]त्रि[1]लो [5]च[1]न[1]भा[5]ला[s]ग्नि[1]ना[s]' इति लक्षणसमन्वयः ।। अ० २, सू०-१५३ ॥ तौ जो गाविन्द्रवज्रा ||१५४॥ यथा- स्वस्वागमाचारपरायणानां, पुण्यात्मनां यः कुरुते विरुद्धम् । क्षोणीभुजस्तस्य भवत्यवश्यं, रौद्रेन्द्रवज्राभिहतस्य पातः॥ १५४.१ ॥ सप्तविशं प्रकारमाह- तौ जो गाविन्द्रवज्रति- तगणद्वयं जगणो गुरुद्वयं च, 'ssI. SsI. Is1. ss.' इतीदृशंरक्षरेः कृताः पादा यस्य तत् इन्द्रवज्रानामकं त्रिष्टुब्जातिच्छन्द इत्यर्थः । उदाहरति- यथा- स्वस्वागमेति, यः- क्षोणीभुक्, स्वस्वागमाचारपरायणानां- स्वस्वेषां- यथासम्प्रदायं प्रातिस्विकानाम्, आगमानाम्- आचारोपदेशकशास्त्राणां, प्रतिपाद्या ये आचाराःसामयिकव्यवहारास्तेषु, परायणानां- तदनुष्ठानतत्पराणां, पुण्यात्मानां- सुकृतिनां, विरुद्धं- प्रतिकूलं, कुरुते- विदघाति, रौदेन्द्रवज्राभिहतस्य- घोर
SR No.023450
Book TitleChandonushasan
Original Sutra AuthorN/A
AuthorVijaylavanyasuri, Vijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1969
Total Pages460
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy