SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ १३४ सवृत्तिच्छन्दोऽनुशासनप्रद्योते [अ० २, सू० १५२-१५३.] s' इतीदृशवणेः कृताः पादा यस्य तत् विमलानामकं त्रिष्टुब्जातिच्छन्द इत्यर्थः । उदाहरति- यथा शरदायातेयमिति, हे नृप !, इयं शरत् आयाता- शरन्नामकोऽयमृतुः प्राप्तः, गगनमणेः- सूर्यस्य इव, तव- भवतः, तेजःप्रतापः, प्रौढिं- प्रकर्ष, भजतां- प्राप्नोतु, तुहिनरुचे:- चन्द्रस्य, ज्योत्सनाकौमुदी इव, [तव कीर्तिः, अतिविमला- परमनिर्मला सती, दिक्षु- आशासु, प्रसरतु- व्याप्नोतु । शरदि राजानो दिग्विजयाय प्रतिष्ठन्ते, त्वमपि प्रस्थाय स्वतेजः प्रकाशय येन दिक्षु कीर्तिरपि प्रसरिष्यतीति नृपप्रोत्साहनमिदम् । श[1][1]दा[s]या[s]ते[s]यं [5]ग[1]ग[1]न[1]म[1]णे:[s]' इति लक्षणसमन्वयः ॥ अ० २, सू०-१५१ ॥ नस्ना गावशोका ॥१५२।। नसना गुरुद्वयं च । यथा- अलिवलयहंकृतिभिरुच-रियमिह निषेधति भवन्तम् । वनभुवमितः पथिक ! मा गाः, कुसुमितसमुल्लसदशोकाम् ॥ १५२.१ ॥ पञ्चविशं प्रकारमाह- नस्ना गावशोकेति । नस्ना गावित्यस्यार्थमाहनसना गुरुद्वयं चेति- नगण-सगण-नगणाः गुरुद्वयं च, 'm, us. . ss.' इतीदृशैरक्षरैः कृताः पादा यस्य तत् अशोका नाम त्रिष्टुब्जातिच्छन्द इत्यर्थः । उदाहरति- यथा- अलिवलयेति, हे पथिक ! इयं- वनभूः, इह- वनाद् बहिरेव, उच्चैः- दीर्घः, अलिवलय हुंकृतिभिः- मधुकरनिकरक्रोधशब्दैः, भवन्तं- त्वाम्, इत:- अस्मात् स्थानात्, कुसुमितसमुल्लसदशोकां- कुसुमित:पुष्पितः, समुल्लसन्- शोभमानः, अशोकः- तन्नामकवृक्षो यस्यां तादृशीम्, वनभुवं- कान्तारभूमि, मा गाः- न गच्छेः, इति निषेधति- वारयति । कान्तावियुक्तो भवान् अशोकपुष्पाणि वीक्ष्य नितान्तं तप्स्यतीति इत एव निवर्तस्वेति वनभूः स्वयमेव भ्रमरशब्दस्त्वामाहेत्यर्थः । 'अ[1]लि[1] व[1] ल[1]य[1]हु[s] कृ[1]ति [1]भि[1] रु[s] चैः[s]' इति लक्षणसमन्वयः सर्वेषु पादेष्विति ॥ अ० २, सू०-१५२ ॥ सज्या ल्गौ सारणी ॥१५३॥ सजयलगाः । यथा- मदनस्त्रिलोचनभालाग्निना, ज्वलितः क्षणादिह जीवेत
SR No.023450
Book TitleChandonushasan
Original Sutra AuthorN/A
AuthorVijaylavanyasuri, Vijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1969
Total Pages460
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy