________________
[अ० २, सू० १५०-१५१.] सवृत्तिच्छन्दोऽनुशासनप्रद्योते
१३३ न्यनल्गाः कमलदलाक्षी ॥१५०॥ नयनलगाः यथा- विरहनिदाघः सुभग ! हठा-दतिशयदीर्घाकृतदिवसः । कृतगुरुतापः कृशयति तां, कमलदलाक्षी सरितमिव ।। १५०.१ ॥ रुचिरमुखीति भरतः ॥ १५०.१ ॥
त्रयोविंशं प्रकारमाह- न्यनलगाः कमलदलाक्षीति । न्यनल्गा इति विवृणोति- नयनलगा इति- नगणो यगणो नगणो लघुगुरू चेति, 'm. Iss. m..' ईदृशैर्वर्णः कृताः पादा यस्य तत् कमलदलाक्षीतिनामकं त्रिष्ट्रब्जातिच्छन्द इत्यर्थः। उदाहरति- यथा-विरहनिदाघः इति, हे सुभग !सौभाग्यशलिन् !, अतिशयदीर्घोकृतदिवसः- अत्यन्तवधितदिनः, कृतगुरुताप:विहितमहादाहः, विरहनिदान:- वियोगग्रीष्मर्तुः, कमलदलाक्षीं- कमलदले इव- पद्मपत्रे इव, अक्षिणी- नेत्रे यस्यास्तादृशीं ताम्, सरितमिव- नदीमिव, हठात्- अतिप्रसह्य, कृशयति- तनूकरोति । काचित् दूती विरहिणीवृत्तान्तं नायकाय कथयति, तव विरहे सा ग्रीष्मे सरिदिव हठात् कृशा जायत इति । तत्र विरहे निदाघत्वारोपः, नायिकायां च नद्या उपमा यथा संघटेत तथा पदविन्यासः कृत एव । निदाघे हि दिवसा दीर्घा भवन्ति, विरहेऽपि ते कठिनतयाऽतिवाह्यन्ते इति र्दीधीभूताः प्रतीयन्ते, निदाघो यथा तापं करोति तथा विरहोऽपि, यथा च नायिका कमलदलाक्षी, तथा सरिदपि कमलदलान्येवाक्षिणी यस्या इति समासाश्रयणात् । तथा चात्र रूपकपोषित उपमालङ्कारः। 'वि[1][i]ह[1]नि[1]दा[s]घः [5]सु[1] भ[1]ग[1][i]ठात्[s]' इति लक्षणसङ्गतिः । अस्य नामान्तरमाह- रुचिरमुखीति भरतः इति- भरत आचार्य इमां रुचिरमुखीत्याहेत्यर्थः । अ० २, सू०-१५० ॥
स्मनल्गा विमला ।।१५१॥ समनलगाः । यथा- शरदायातेयं गगनमणे-रिव तेजः प्रौढि तव भजताम् । नृप ! कीतिर्योत्स्ना तुहिनरुचे-रिव दिक्षु भ्राम्यत्वतिविमला ।।१५१.१॥
चतुर्विशं प्रकारमाह- स्मनल्गा विमलेति । स्मनलगा इति पदं विवृ. णोति- स्मनलगाः इति- सगण-मगण-नगणा लघुगुरू च, 's. sss..