SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ सवृत्तिच्छन्दोऽनुशाषनप्रद्योते [अ० २, सू० १४८-१४६.] तमजल्गा उत्थापनी ॥१४८।। __यथा- सर्पद्विपेन्द्रभरकम्प्रमही-, प्रभ्रश्यददिशिखरध्वनिभिः । अम्भोधिमध्यशयितस्य हरे- रुत्थापनी जयति ते पृतना ॥ १४८.१ ॥ एकविशं प्रभेदमाह- तमजल्गा उत्थापनी इति- तगण-भगण-जगणा लघुगुरू च, 'si. sI. II. Is' इतीदृशर्वर्णैः कृताः पादा यस्य तत् उत्थापनी. नामकं त्रिष्टुब्जातिच्छन्द इत्यर्थः । उदाहरति- यथा-सर्पदिति, सर्पद्विपेन्द्रभरकम्प्रमहीप्रभ्रश्यददिशिखरध्वनिभि:- सर्पन्तो-यतस्ततश्चलन्तो मे द्विपेन्द्राःमहागजाः, तेषां भरेण- भारेण, कम्प्रा- चलन्ती या मही तस्यां प्रभ्रश्यन्तःपतन्तो येऽद्रि शिखरा:- पर्वतकूटाः, तेषां ध्वनिभिः-- शब्दैः; अम्भोधिमध्यशयितस्य हरे:- समुद्रान्तः शेषश्ययां निद्रितस्य विष्णोः, उत्थापनी- निद्रापनयनकारिणी, ते- तव, पृतना- सेना, जयति- रिपूनभिभूय र्वद्धते इत्यर्थः । 'स[5]पंद्[s]द्वि[1]पे[s]न्द्र [1]भ[1] [1]क[s]म्प्र[1]म[i]ही[1]' इति लक्षणसमन्वयः ।। अ० २, सू०-१४८ ॥ तो नौ ल्गौ मुखचपला ॥१४६॥ यथा- आकाङ्क्षसि यदि सुखमसमं, जन्मापि विमलमिह मनुषे । नागीमिव निरवधिकुटिलां, नारी परिहर मुखचपलाम् ॥ १४६.१ ।। द्वाविंशं प्रभेदमाह- तो नौ ल्गौ मुखचपलेति- तगणो नगणद्वयं लघुगुरू च, si. m..is.' इतीदृशणैः कृताः पादा यस्य तत् मुखचपलानामकं त्रिष्टुब्जातिच्छन्द इत्यर्थः । उदाहरति- यथा-आकाङ्क्षसीति, यदि-चेत्, असमं- निरुपम, सुखम्-आनन्दम्, आकाङ्क्ष सि-वाच्छसि [ तथा ] विमलंनिर्मलं, जन्म- जीवनसमयं, [ यदि ] मनुषे- अनुजानासि, तर्हि नागीमिवसर्पिणीमिव, निरवधिकुटिलां- नि:सिमजिह्मतायुक्तां, मुखचपलां- मुखे- मुखव्यापारे वाचि, चपलां- चञ्चलां, नारी- स्त्रियं, परिहर- वर्जयेत्यर्थः । 'आ[5]का[s]ङ्क्ष[]सि[1], य[1]दि[i], सु[1]ख[1]म[1]स[1] मं[s]' इति लक्षणसमन्वयः ॥ अ० २, सू०-१४६ ॥
SR No.023450
Book TitleChandonushasan
Original Sutra AuthorN/A
AuthorVijaylavanyasuri, Vijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1969
Total Pages460
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy