SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ [अ० २, सू० १४७.] सवृत्तिच्छन्दोऽनुशासनप्रद्योते गोषु वा तृणे वा । शापे वा स्तवनेऽपि वा वितृष्णं, साधूनां मन एकरूपमेव ॥ १४६.१ ॥ ऊनविशं प्रकारमाह- मस्जा गावेकरूपमिति । व्याख्याति- मसजा गुरुद्वयं चेति- मगण-सगण-जगणा गुरुद्वयं च 'sss. S. Is1. ' इतीदृशैवर्णैः कृताः पादा यस्य तत् एकरूपं नाम त्रिष्टुब्जातिच्छन्द इत्यर्थः । उदाहरति- यथा- काष्ठे वेति, काष्ठे- दारुणि वा- अथवा, कनके- सुवर्णे, मणौ- रत्ने- वा, लोष्टे- मृत्पिण्डे वा, रमणीषु- रतिदात्रीषु स्त्रीषु वा, तृणे वा, शापे- आक्रोशे वा, स्तवनेऽपि- स्तुतावपि वा, साधूनां- यतीनां, वितृष्णं- निस्पृहं, मन:- चेतः, एकरूपमेव- समानस्वरूपमेव, न क्वापि आदरो नवा क्वापि निरादरः, सर्वत्र माध्यस्थ्यमेवाश्रयतीति भावः । का[s]ष्ठे[s] वा[s]क[1]न[1] के [s]थ[1]वा[s]म[1]णौ[5]वा[s]' इति लक्षणसङ्गतिः ॥ अ० २, सू०-१४६.॥ तो जौ ल्गौ मोटनकम् ॥१४७॥ यथा- दन्तद्युतिद्यौतदिगन्तरया, रम्यं नवयौवनया विहितम् । साचीकृतलोलविलोचनकं, दृष्टं भवता मुखमोटनकम् ॥ १४७.१ ॥ विशं प्रभेदमाह- तो जौ ल्गौ मोटनकमिति- तगणो जगणद्वयं लघुगुरू च, 'sI. Is1. ISI. I.' इतीहशर्वर्णः कृताः पादा यस्य तत् मोटनकं नाम त्रिष्टुन्जानिच्छन्द इत्यर्थः । उदाहरति- यथा-दन्तद्युतिधौतेति-दन्तद्युतिभिः- दशनकान्तिभिः, धौतानि दिगन्तराणि- सर्वादिशो यया तया, नवयौवनया-नवम्-चिरप्रादुर्भुतं, यौवनं-तारुण्यं यस्या-स्तया, विहितं- कृतं, रम्यंमनोहरं, साचीकृतलोलविलोचनकं- साचीकृते- वक्रीकृते, लोले- चञ्चले, विलोचने- नेत्रे यत्र तद् यथा स्यात् तथा, मुखमोटनकम्- आननपरिवर्तनं, भवता, दृष्टम्- अवलोकितम्, [ किमिति ] प्रश्नः काका सूचितः । 'द[5] न्त[s][1]ति[1]द्यौ[5]त[1]दि[1]ग[5]न्त[1][1]या[s]' इति लक्षणसमन्वयः ॥ अ० २, सू०-१४७ ॥
SR No.023450
Book TitleChandonushasan
Original Sutra AuthorN/A
AuthorVijaylavanyasuri, Vijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1969
Total Pages460
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy