________________
१३०
सवृत्तिच्छन्दोऽनुशासनप्रद्योत [अ० २, सू० १४५ - १४६.]
ङ्कराः, किङ्कराः - अनुचराः, तैः, व्याकुला - विपर्यस्ता इव, लक्ष्यते - ज्ञायते । त्वदीयशत्रवाहिन्यां यत्र तत्र मृतानां सैनिकानां देहोपरि गृध्राः कङ्काः श्येन्यश्च पतन्ति, उपरि भ्रमन्ति वा तेनेदं लक्ष्यते यत् यमस्येमे किङ्करा एषां प्राणानादातुमागताः, तैरियं सेना व्याकुलेति । अस्या नामान्तरमन्यसम्मतमाहनिःश्रेणिकेत्यन्ये इति - अन्ये आचार्या इमां निःश्रेणिकेत्याहुरित्यर्थः । ' भ्रा[5]न्त[+] [5] [] वृ[s]न्द [1]कङ् [s]क [0]म [s]ण्ड[1][3] [ अग्रेसंयुताक्षरसत्त्वात्पादान्तस्थत्वाद् वा गुरुत्वम् ] इति लक्षणसमन्वयः ॥ अ० २, सू०-१४४ ।।
नो जौ लगो सुमुखी ॥ १४५ ॥
यथा - कनकरुचिर्धनपीनकुचा, मनसिजविभ्रमकेलिगृहम् । चलनयनानवकुन्ददती, न हरति कस्य मनः सुमुखी ।। १४५.१ ।। द्रुतपादगतिरिति
भरतः ।। १४५.१ ।।
अष्टादशं प्रकारमाह- नो जौ लगौ सुमुखीति - नगणो जगणद्वयं लघुगुरू च, '।।1. IऽI. ISI. Iऽ.' इतीदृशैर्वणैः कृताः पादा यस्य तत् सुमुखीनामकं त्रिष्टुब्जातिच्छन्द इत्यर्थः । उदाहरति- यथा- कनकरुचिरिति, कनकरुचि :- सुवर्णकान्ति:, घनपीनकुचा - घनौ निविडौ, पीनी - स्थूली च कुचीस्तनौ यस्याः सा मनसिजविभ्रमकेलिगृहं - मनसिजस्य- कामसम्बन्धी यो विभ्रमः - विलासस्तस्य केलिगृहं - क्रीडागारभूता, चलनयना - चञ्चलनेत्रा, नवकुन्ददती - नवं- नवीनं कुड्मलावस्थं यत् कुन्दं - माघमासिकं श्वेतपुष्पं, तदिव दन्ता यस्याः सा सुमुखी- सुन्दरमुखी कामिनी, कस्य मनः- चेतः, न हरतिन स्ववशं नयति, अपि तु सर्वस्यापि मनो हरत्येवेत्यर्थः । अस्यापि नामान्तरमाह - द्रुतपादगतिरिति भरत इति भरत आचार्य इदं छन्दो द्रुतपादगतिनाम्ना व्यवहरतीत्यर्थः । 'क [ 1 ]न [ 1 ] [ 1 ]रु [1] चि[s]र्घं [1] न [ 1 ] पी [s] - न [ 1 ] कु[ | ] चा [s] ' इति लक्षणसमन्वयः ॥ अ० २, सू० - १४५ ॥
मस्जा गावेकरूपम् || १४६ ||
मसजा गुरुद्वयं च । यथा- काष्ठे वा कनकेऽथवा मणी वा, लोष्टे वा रम