SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ [अ० २, सू० १४४.] सवृत्तिच्छन्दोऽनुशासनप्रद्योते १२६ सप्तदशं प्रभेदमाह- नौ रल्गा भद्रिकेति । अर्थमाह-नद्वयं रो लघुगुरूचेति- नगणद्वयं रगणो लघुगुरू च, '1. III. sis. Is.' इतीदृशैर्वर्णैः कृताः पादा यस्य तत् भद्रिकानामकं त्रिपुष्टब्जातिच्छन्द इत्यर्थः । उदाहरति- यथापरिहरेति, परापदं- अन्यजनदुःखं, परिहर- निवर्तय, जिनवचने- जिनस्योपदेशवाक्ये, अनुरागितां- श्रद्धालुत्वं, कुरु-विधेहि, इति- इत्थं, चरत:कुर्वाणस्य, तव- भवतः, परे- अन्यस्मिन्, भवे- जन्मनि, सपदि- शीघ्र, भद्रिका कल्याणी, गति:- स्थितिः, भवतु- जायताम् । अस्य नामान्तरमाह- अपरवक्त्रमिति भरतः इति- भरत आचार्योऽस्य च्छन्दसोऽपरवक्त्रमिति नामाहेत्यर्थः । मात्रासमच्छन्दस्यप्यस्यान्तर्भावमाहउत्तरान्तिकेयमिति- तृतीयाध्याये "ओजजा चारुहासिनी" [ ६० ] इति सूत्रेण वैतालीयादेविषमपादजाता चारुहासिनीति लक्षिता, तामेवैके- वैतालीयोत्तरान्तिकेति कथयन्ति, तस्याश्च चतुर्वपि पादेषु प्रत्येक चतुर्दश मात्रा भवन्ति, अस्य [ भद्रिका ]च्छन्दसोऽपि प्रतिपादं चतुर्दशमात्राः सन्तीति तन्नाम्नाऽपीयं व्यवहर्तुं शक्यत इत्यर्थः । क्वचिच्च 'चाहहासिनीयम्' इत्यपि पाठः । 'प[1]रि[1]ह[1] [1], नि[1]त[1] रां[s], प[1]रा[s]प[1]दं [s]' इति लक्षणसमन्वयः ॥ अ० २, सू०-१४३ ॥ रज्रल्गा श्येनी ॥१४४॥ रजरा लघुगुरू च । यथा- भ्रान्तगृध्रवृन्दकङ्कमण्डलश्येनिका त्वदीयवैरिवाहिनी । आपतत्कृतान्तदरौकिकर-व्याकुलेव लक्ष्यते क्षमापते ॥ १४४.१ ॥ निःश्रेणिकेत्यन्ये ॥ १४४.१ ।। ___ सप्तदशं प्रकारमाह- रचल्गाः श्येनीति । व्याख्याति- रजरा लघुगुरू चेति- रगण-जगण-रगणा लघुगुरू च, 'sis. Is1. SIS. Is.' इतीदृशैर्वणैः कृताः पादा यस्य तत श्येनीनामकं त्रिष्टुब्जातिच्छन्द इत्यर्थः। उदाहरति- यथाभ्रान्तगध्रति, हे क्षमायते !- राजन् !, त्वदीयवैरिवाहिनी- तव शत्रूणां सेना, भ्रान्तगृध्रवृन्दकङ्कमण्डलश्येनिका- भ्रान्तानि गृध्रवृन्दानि- कङ्कमण्डलानिश्येन्यश्च [ भ्रान्ताः ] यत्र तादृशी सती, आपतत्कृतान्तरौद्रकिङ्करव्याकुला इव- आपतन्तः- समन्तादागच्छन्तः, ये कृतान्तस्य- यमस्य, रौद्राः- भय
SR No.023450
Book TitleChandonushasan
Original Sutra AuthorN/A
AuthorVijaylavanyasuri, Vijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1969
Total Pages460
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy