________________
१२८ सवृत्तिच्छन्दोऽनुशासनप्रद्योते [अ० २, सू० १४२-१४३.] रजांसि, जगति- संसारे, अन्धतां- दृष्टिप्रतिबन्ध, कुर्यु:- विदध्युः, चेत्यदि, इमाः- घूलीः, करिघटा- गजश्रेणी, भूयसा- प्रभूतमेन, मदाम्मसादानजलेन, सर्वतः- सर्वासु दिक्षु, न प्रशमयेत्- न शान्ति नयेत् । गजश्रेण्या दानजल मेराीकरणे धूलयो न प्रसृता इति जगदान्ध्यं न जातिमिति भावः । 'ता[5]व[1] की[5]न[1]क[1][1] के [s], र[1] थो[s] [1]ता: [s'इति लक्षणसमन्वयः ।
अस्या० मात्रासमच्छन्दस्यप्यन्तर्भावमाह- अपरान्तिकेयम इति- तृतीयेध्याये “वैतालीयादेर्युक्पादजा अपरान्तिका" ।। ५६ ॥ इति सूत्रेण लक्षिते षोडशमात्रके मात्रासमच्छन्दसि अस्यान्तर्भावः संभवतीत्यर्थः । अस्यापि प्रतिपादं षोडशमात्राणां सत्त्वात् । यद्यपि तत्र प्रदर्शितेषु तद्भदेषु न कोऽपीदृशः समुपलभ्यते यः सर्वथा रयोद्धतामनुकुर्यात्, तथापि मात्रासंख्यासाम्येनेयमपि तत्रान्तर्भवितुं शक्नोतीतिभावः ॥ अ० २, सू०-१४१ ॥
रनभा गौ स्वागता ॥१४२।। रनमा गुरुद्वयं च । यथा- वल्लभं सुरभिमित्रमनङ्ग, दाक्षिणात्यपवनं सुहृवं छ । पृच्छतोह परपुष्टविघुष्टः, स्वागतानि नियतं वनलक्ष्मीः ।। १४२.१ ॥
षोडशं प्रकारमाह- रनभा गौ स्वागतेति । अर्थमाह- र-न-भा गुरुद्वयं चेति- रगण-नगण-भगणा गुरुद्वयं च, 'sis. III. . ss.' इतीदृशैर्षणैः कृताः पादा यस्य तत् स्वागतानामकं छन्द इत्यर्थः । उदाहरति- यथा- वल्लभमिति, वनलक्ष्मी:- वनशोभादेवता, वल्लभं- प्रियं, सुरभिमित्र- सुरभे:वसन्तस्य, मित्रं- सखायम्, अनङ्ग- कामं, सुहृदं- स्वसखायं, दाक्षिणात्यपवनं- दक्षिणदिग्वायुं च, परपुष्टविघुष्टैः- परपुष्टः- पिकः, तस्य विघुष्टैःअसकृदारावैः, नियतं- निश्चितं, स्वागतानि- किं सुखपूर्वकमागतं भवद्भयामित्यादि, शोभनमागतं भवतोः किमित्यदि वा, परिपृच्छति-जिज्ञासते इत्यर्थः।। 'व[s]ल्ल [1] भं[], सु[1] I]भि[1]मि[s][1]म[1] न[5] का[s]: इति लक्षणसमन्वयः ।। अ० २, सू०-१४२ ॥
नौ रल्गा भद्रिका ॥१४३।। मद्यं रो लघुगुरू च । यथा- परिहर नितरां परापदं, कुरु जिनवचनेऽनुरापिताम् । इति तव चरतः परे भवे, भवतु सपदि भद्रिका गतिः ॥१४३.१॥