SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ सवृत्तिच्छन्दोऽनुशासनप्रद्योते . [अ० २, सू० १३९.] गुरुश्चेति, 'sss. sn.m.s' इत्येवंप्रकारवर्णविहिताः पादा यस्य तद, चतुभिश्च यतिर्यत्र तत् भ्रमरविलसितं नाम त्रिष्टुब्जातिच्छन्द इत्यर्थः । उदाहरति- यथा-प्रत्याख्यातेति, प्रत्याख्याताऽपि- निषिद्धाऽपि, कमलवनं याता- गता, असि, तत्- तस्मात्, करतलचलनः-- [भ्रमरवारणार्थ] हस्तचालनक्रियाभिः, किं- किमपि, न साध्यम्, हे मुग्धे ! ऋजुमतितयाऽज्ञातस्वपद्मिनीत्वे, स्फुटकमलधिया-विकसितपद्मबुद्धया, वक्रापातिभ्रमरविलसितंवके- मुखोपरि, आपतन्ति तच्छीला ये भ्रमरा:- द्विरेफाः, तेषां विलसितंलीलां, विद्धि- जानीहि । इमामेव बाधामभिलक्ष्य त्वं मया कमलवनं प्रति गन्तुं निषिद्धा, तदनादृत्य तत्र गतात्वं तत्रत्यभ्रमरैरर्धफुल्लकमलानि त्वन्मुखादल्पामोदानि हित्वा त्वन्मुखोपर्येव विलासः क्रियते, साम्प्रतं हस्तचालनैस्ते वारयितुमशक्या इति भावः । 'प्र[sत्या[s] ख्या[s]ता[जाप्य [1]सि[1], क[1]म[1]ल[1]व[1] नं [5]'. इति लक्षणसमन्वयः। अस्य च्छन्दसो मात्रासमच्छन्दस्यप्यन्तर्भावमाह- वानवासिकेयमिति- तृतीयाध्याये "द्वादशश्व वानवासिका" [६६] इति सूत्रेण वणिते वानवासिकेतिनाम्नि मात्रासमकच्छन्दसि यानि लक्षणानि कथितानि तान्यत्रापीति भावः ।। अ० २, सू०१३८ ॥ नौ सो गौ वृन्ता ॥१३९।। घेरिति वर्तते । यथा-जिनपतिगुरुपदपीठे यो,-शटमतिरिह लुठति प्रोत्या। विगलति निखिलमघं तस्मात्, परिणतफलमिव वृन्तान्तात् ॥ १३६.१ ॥ त्रयोदशं प्रभेदमाह- नौ सो गौ वृन्ता इति । अत्रापि पूर्ववद् यतिनियम इत्याह-घेरिति वर्तते इति । तथा च नगणद्वयं सगणो गुरुद्वयं च, 'il. 1. s. ss' इतीहशर्वर्णः कृताः पादा यस्य, तथा चतुर्मिर्यतिर्यत्र तत् वृन्तानामकं त्रिष्टुब्जातिच्छन्द इत्यर्थः । उदाहरति- यथा- जिनपतीति, यः, अशठमतिः- निष्कपटबुद्धिः सन्, जिनपति:- जिनप्रवर एव, गुरु:- सर्वहितोपदेष्टा तस्य, अथवा जिनपतेर्गुरोश्च पदपीठे- पादधान्यां, प्रीत्या श्रद्धयाऽनु. रोगेण वा लुटति- नम्रीभवति, तस्मात्- जनात्, वृन्तात्- गृच्छात्, परिणतफलमिव- पक्वफलामिव, निखिलमधं- सर्व पापं. विगलति- निपतति ।
SR No.023450
Book TitleChandonushasan
Original Sutra AuthorN/A
AuthorVijaylavanyasuri, Vijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1969
Total Pages460
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy