SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ [अ० २, सू० १३७-१३८.] सवृत्तिच्छन्दोऽनुशासनप्रद्योते १२३ सधूलिवातेनाक्षिविधातः समुपास्थितः, छत्राभावाच्च सूर्येणापि तसास्ते इति भावः । 'त्व[5]च्छ[s][s]णां[s], वि[]पि[i] नं [s], प्र[स्थि[i]तां[s]नां[s]' इति लक्षणसङ्गतिः ॥ अ० २, सू०-१३६ ॥ मो भौ गौ वा ॥१३७॥ वातोा एव लक्षणान्तरम् । घेरिति वर्तते । यथा- घोराकारा घनघोषविशेषा, दूरोत्क्षिप्तक्षितिरेणुविमिश्रा । लोकक्षोभं सहसा विदधाना, वातोर्मीयं कुरुते जगदन्धम् ।। १३७.१ ॥ . एकादशप्रभेदत्वेन पुनस्तामेव लक्षणान्तरेणाह- मो भौ गो वेति । छन्दोनामनिर्देशाभावान्न्यूनाताशङ्कां परिहर्तुमाह- वातोा एव लक्षणान्तरमिति । यतिनियमः स एवेत्याह-घेरिति वर्तते हति । तथा च मगणो भगणद्वयं गुरुद्वयं च, 'ss. si. sn.s' इत्येवंप्रकारवर्णविहिताः पादा यस्य, चतुर्भिश्च यतिर्यत्र तत् वातोाश्छन्दसः प्रकारान्तरं त्रिष्टुब्जातिच्छन्द इत्यर्थः । उदाहरति- यथा-घोराकारा इति, घोराकारा- भयंकरस्वरूपा, घनघोषविशेषा- घनानां- मेधानां, घोषेण विशेष:- अधिक्यं यस्याः सा, दूरोत्क्षिप्तक्षितिरेणु विमिश्रा- दूरोत्क्षिप्ता:- भारादुद्भूता ये क्षितिरेणव:पृथ्वीपांशवः, तविमिश्रा- सहिता, सहसा- अकस्मात, लोकक्षोभं- जनचाञ्चल्यं, विदधाना- कुर्वती, इयं वातोर्मी- वायुमण्डली, जगत्-विश्वम्, अन्धं- लोचनविफलं, कुरुते- विदधाति । 'घो[s] रा[s]का[5] रा[5], घ[0] न[1] घो[s]ष[1]वि[1]मि[s]श्रा[s]' इति लक्षणसंगतिः ॥ अ० २, सू०१३७ ॥ मम्नल्गा भ्रमरविलसितम् ॥१३८॥ मभना लगुरू च । घरिति वर्तते । यथा-प्रत्याख्याताप्यसि कमलवनं, याता तत् किं करतलचलनः । मुग्धे ! विद्धि स्फुटकमलधिया, वक्त्रापातिभ्रमरविलसितम् ॥ १३८.१॥ वानवासिकेयम् ।। १३८.१॥ द्वादशं प्रकारमाह-मम्नल्गा भ्रमरविलसितमिति । अर्थमाह- मभनाघर्गरुश्चेति, परिति वर्तते इति च । तथा च मगण-भगण-नगणा लघु -
SR No.023450
Book TitleChandonushasan
Original Sutra AuthorN/A
AuthorVijaylavanyasuri, Vijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1969
Total Pages460
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy