SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ १२४ सवृत्तिच्छन्दोऽनुशासनप्रद्योते [अ० २, सू० १३६.] धुनीना, व्यातन्वाना वीरुधा लास्यलीलाम् । उज्जम्भन्ते शालिनीवारपाक-, स्फारामोदाः शारदा वायवोऽमी ॥ १३५.१ ॥ नवमं प्रकारमाह- मात् तो गौ शालिनी घेः इति । अर्थमाह- मस्तद्वयं गुरुद्वयं च, धरिति चतुभिर्यतिरिति- मगणः, नगणद्वयं, गुरुद्वयं च, 'sss. ss1. si. ss.' इत्येवंप्रकारैर्वर्णेविहिताः पादा यस्य तत्, यत्र च चतुभिर्यतिस्तत् शालिनीनामकं त्रिष्टुब्जातिच्छन्द इत्यर्थः। उदाहरति- यथा-ऊर्मीभङ्गोरिति, धुनीनां- नदीनाम्, ऊर्मीभङ्गी:- तरङ्गखण्डान्, निर्मिभाणाःकुर्वन्तः, वीरुधां- वल्लीनां, लास्यलीलां-नृत्यक्रीडां, व्यातन्वाना:- वर्धयन्तः, शालिनीवारपाकस्फारामोदा:- शालयः- कृष्टपच्या व्रीहयः, नीवारा:अकृष्टपच्याः, तेषां पाक:- पक्वैः शस्यः, स्कारामोदा:- प्रकट सुरभयः, शारदाः-शरहतुसम्बन्धिनः, अमी वायव:- वाताः, उज्जम्भन्ते- बहलीभवन्ति। त्रिभिविशेषणैर्वायूनां शीतलमन्दसुगन्धित्वं ध्वनितम् । 'ऊ[s] [5] भ[s] ङ्गी[5]नि[s]मि[1]मा[5]णा[s], धु[i]नी[s]नां[5]' इति लक्षणसमन्वयः । चतुभिश्च यतिरपि स्पष्टा ।। अ० २, सू०-१३५ ॥ ममता गौ वातोर्मी ।।१३६॥ घेरिति वर्तते । यथा- त्वच्छत्रूणां विपिनं प्रस्थितानां, क्षिप्तः पांशुईशि वातोमिकाभिः ॥ तापः सूर्येण च मूनि प्रकीर्णः, को वा नास्कन्दति संप्राप्तभङ्गान् ।। १३६.१ ॥ दशमं प्रभेदमाह- ममता गौ वातोर्मोति । यतिनियमोऽपीति सूचयतिघेरिति वर्तते इति । तथा च मगण-भगण-तगणा गुरुद्वयं च 'sss. I. I. s' इत्येवंरूपर्वणः कृताः पादा यस्य तत् वातोर्मीनामकं त्रिष्टुब्जातिच्छन्द इत्यर्थः । उदाहरति- यथा- त्वच्छत्रूणामिति, विपिनं- वनं, प्रस्थितानांचलितानां, त्वच्छत्रूणां- भवदरीणां, दृशि- नेत्रे, वातोमिकाभिः- वायुप्रवाहैः, पांशुः- धूलि:, क्षिप्त:- पातितः, सूर्येण च मूधिन- मस्तकोपरि, ताप:- दाहः, प्रकीर्णः- प्रक्षिप्तः [अर्थान्तरं न्यस्यति] को वा सम्प्राप्तभङ्गान्- परिभूय पलायितान्, न आस्कन्दति- नाकामति, अपि तु सर्व एव तादृशान् आस्कन्दस्येव । त्वया परिभूतास्त्वच्छत्रवो वनं प्रति चालिताः, तत्रापि प्रतिकूलेन
SR No.023450
Book TitleChandonushasan
Original Sutra AuthorN/A
AuthorVijaylavanyasuri, Vijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1969
Total Pages460
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy