________________
[अ० २, सू० १३४-१३५.] सवृत्तिच्छन्दोऽनुशासनप्रद्योते १२३ मानमहाविषपूणिताङ्गी- मान एव महाविषं तेन चूर्णिताङ्ग- भ्रान्तशरीरा, या-सी, कलया अपि- मात्रयाऽपि ते- तव, वशंवदा- अनुकूला, न अभूत, लोलन्मलयानिलदोलितात्मा- चञ्चलदक्षिणपवनकम्पिताऽन्तः- करणा, सा प्रीत्या- सस्नेह, सविलासं- सविभ्रमं च, उपस्थिता- समीपं प्राप्तेत्यर्थः, दक्षिणानिलो मानापगमकारणमिति भावः । 'या[s], मा[s]न[1]म[1] हा[s]. वि[1]ष[1]घू[s]णि[1]ता[s]ङ्गी[s]' इति लक्षणसमन्वयः ॥अ० २, सू०-१३३. ॥
जस्ता गावुपस्थितम् ॥१३४॥ जसता गुरुद्वयं च । यथा- शिलीमुखतति सत्पक्षनादा, मुहुनिदधतं बाणा. सना) । पुरः शरतुं संप्रेक्ष्य राजन !, उपस्थितमरिस्त्वामेव मेने ॥ १३४.१ ।।
अष्टमं प्रभेदमाह- जस्ता गावुपस्थितमिति । अर्थमाह- जसता गुरुद्वयं ति- जगण-सगण-तगणा गुरू च, '11. s. ssi. ss' इत्येवंत्रकारर्वणैः कृताः पादा यस्य तद् उपस्थितं नाम त्रिष्टुब्जातिच्छन्द इत्यर्थः । उदाहरति- यथाशिलीमुखेति, हे राजन् !, वाणासनाङ्गे- बाणश्च आसनश्चेति- बाणासनो, बाणवृक्षबीजकवृक्षो. तयोरङ्गे- उत्सङ्गे, सत्पक्षनादां- सन्- विद्यमानः, पक्षयो दो यस्यां तां, शिलीमुखतति- भ्रमरपङ्क्तिः , मुहुः- वारं वारं, निदधतं-धारयन्तं, शरदतुं, पुरः- अग्रे, उपस्थितं- समागतं, प्रेक्ष्य-दृष्ट्वा , अरि:- तव शत्रुः, [तादृशं] त्वामेव पुर, उपस्थितं मेने । त्वमपि हि सत्पक्षनादां- सन् पक्षस्य पक्षयोर्वा पुंखलग्नयोः, नादो यस्यां तां, शिलीमुखतति
गणपति, दाणासनाङ्गे- धनुषि, दघसि, शरदतुश्च तवाभियानसमयस्तेन दृष्टपूर्व इति शरदतुमुपस्थितं विलोक्य स त्वामेवोपपस्थितं मेने इति भावः । 'शि[ ]ली[5]मु[s]ख[s]त[1]ति[s],सत्[s]प[5]क्ष[1]ना[s]दां[s]' इति लक्षणसमन्वयः ॥ अ० २, सू०-१३४॥
मात् तो गौ शालिनी चैः ॥१३५॥ नवमस्तद्वयं गुरुद्वयं च । रिति चतुभिर्यतिः। यथा- ऊर्मीमङ्गीनिर्मिमाणा