________________
-
१२२ सवृत्तिच्छन्दोऽनुशासनप्रषोते [अ० २, सू० १३२-१३३.]
भत्ना गौ श्री ॥१३२॥ हुरिति पश्चमियंतिः, भतना गुरुद्वयं च, यथा- या सुजनानामुपकरणाय, प्रद्विषतां च प्रतिकरणाय । मानधनानां भवति नराणां, श्रीरितरा स्यात् परिकरमात्रम् ।। १३२.१ ।। सान्द्रपदमित्यन्ये । रुचिरेति भरतः। यतिनियमाभावे इदमेव प्रत्यवबोधः ।। १३२.१ ।।
षष्ठं प्रभेदमाह- भरना गौ श्री रिति । विवृणोति- डैरिति पञ्चभियतिः , भतना गुरुद्वयं चेति- भगण-तगण-नगणा गुरुद्वयं च, I. . . s' इत्येवंरूपवर्णे कृताः पादा यस्य तत् श्रीनामकं त्रिष्टुब्जातिच्छन्दः । अत्र च पश्चमिर्वर्णविराम इति । उदाहरति- यथा-या सुजनानामिति, याश्रीः, सुजनानां- सौजन्यशालिनां जनानां, उपकरणाय- सहायताये, प्रद्विषतांशत्रूणां च, प्रतिकरणाय- प्रत्यपकारं कर्तुं [ प्रभवति ], मानधनानां- मा. निनां नराणां, [सा ] श्री:- लक्ष्मी: स्यात्, इतरा- एतद्विपरीता, परिकरमात्रं- सामग्रीमात्रमित्यर्थः । अत्र 'या[5] सु[1] ज[i]ना[s]ना[5][i][i]क[i][]णा[s]य[1]' इति लक्षणसमन्वयः । अस्य नामान्तरमाह- सान्द्रपदमित्यन्ये इति-केचिद्-अन्ये इदं छन्दः सान्द्रपदमित्याहुरित्यर्थः । छन्दःकौस्तुभे सान्द्रपदे कश्चिद्भदो दृश्यते, यथा- सान्द्रपदं भूतो नगलघुभिश्चेति । रुचिरेति भरतः इति- भरत आचार्य इदं छन्दो रुचिरेत्याह । अस्यैव प्रकारान्तरेण- नामान्तरमाह-यतिनियमाभावे इदमेव प्रत्यवबोधः इतियतिरिति यति नियमस्यानाश्रयणे इदमेव च्छन्दः 'प्रत्यवबोध'संज्ञयोच्यत इत्यर्थः ।। अ० २, सू०-१३२. ।।।
तो जो गावुपरिथता ॥१३३।। यया-या मानमहाविषणिताङ्गो, नाभूत कलयापि वशंवदा ते । लोलम्मलयानिलदोलितात्मा, प्रीत्या सविलासमुपस्थिता सा ॥ १३३.१॥
सप्तमं प्रभेदमाह- तो जो गावुपस्थितेति- तगणो जगणद्वयं गुरू च, 's. II. I. ' इत्येवंप्रकारर्वर्णः कृताः पादा यस्य तत् उपस्थितानामकं त्रिष्टुब्जाविच्छन्द इत्यर्थः । उदाहरति- यथा-या मानमहा वषेति,