SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ [अ० २, सू० १३१.] सवृत्तिच्छन्दोऽनुशासनप्रद्योते १२१ नुकरणं- धकधोंकृतिरिति, तस्या नादैः शब्दः, श्रव्यं- श्रवणयोग्यं श्रुतिसुखमिति यावत्, व्यवञ्जित पाठकृति- पाठस्य कृती उपाध्यायः, व्यञ्चितः, पाठकृतिन उपाध्यायस्य ध्वनिः पद्न्यासेन यत्र नत्ये, एतत् क्रियाविशेषणमितिपर्याये, केचित् तु एवमाहुः- व्यञ्जिता- व्यक्तीकृता, पाठकृतिः- गीतादिनाटो यस्मिस्तत्, ध्वनिपादन्यासं- ध्वनी गीतलये, पादन्यासः- पादप्रक्षेपो यस्मिस्तद् यथा स्यात् तथा, असौ- पूर्ववणिता, सुभ्रूः- सुन्दरभृकुटिमती नारी, नृत्यति- नर्तनं करोति। 'पु[s]ष्क[1] र[1]म[s]म्बु[1]द[1]ग[s]जि[1]त[1]धी[5]रैः[5]' इति लक्षणसमन्वयः । अस्य मात्राछन्दस्यप्यन्तर्भाव इत्याहउपचित्रेयमिति-तृतीयेऽध्याये "ग्युपचित्रा" [६६॥ ] अजमुखश्चीगन्तो नवमे गुरावुपचित्रेति वणितमात्रासमकच्छन्दसि चतुभिश्चतुष्कलः कृतपादा उपचित्रा भवतीति वक्ष्यते, नवमश्च गुरुरिहाप्यस्त्येवेति तत्राप्यस्य च्छन्दसोऽन्तर्भाव: सुशकः, किन्तु संज्ञाविशेषप्रदर्शनार्थं वर्णच्छन्दःप्रकरणेऽप्यस्यान्तर्भावः वृत इति प्राग्वदवसेयम् ॥ अ० २, सू०-१३० ॥ सिल्गा विदुषी ॥१३१॥ सत्रयं लघुगुरू च । यथा- कुरुते तरसा न हि चापलं, स्वयमेव न चार्थयते परम् । प्रकटं कुरुते न वियाततां, प्रमदा विदुषी भवतीदृशी ॥ १३१.१ ॥ पञ्चमं प्रकारमाह- सिल्गा विदुषीति । अर्थमाह- सगणत्रयं लघुगुरू क्षेति, तथा च ||s. ॥5. IIS. ।' इत्येवंरूपवर्णैः कृताः पादा यस्य तत् विदुषीनामकं त्रिष्टुब्जातिच्छन्द इत्यर्थः । उदाहरति- यथा- कुरुते तरसेति, तरसा- सहसा, चापलं- वागादिकृतं चाञ्चल्यं, न कुरुते, परं- प्रियमपि, स्वयमेव- आत्मनव, न अर्थयते- न याचते, प्रकटं- प्रकाशरूपेण, वियाततांधाष्टयं प्रागल्भ्यं वा न कुरुते, ईदृशी प्रमदा- स्त्री, विदुषी भवति- संज्ञाना कथ्यते । अयं हि शालीनाङ्गनानां स्वभाव:- यत् हृदये चाञ्चल्यं, सङ्गमस्पृहां, तदनुकूलं प्रागल्भ्यं च धारत्यन्योऽपि पुरुषप्रर्वत्तनां विना स्वत एव पूर्व न प्रकटयन्तीति, तत् सर्व या जानाति सैव विदुषी, विपरिता च पामरीति गण्यते । 'कु[1][1]ते[s]त[1][1]सा[5]न[1] हि[1]चा[s]प[1]लं [1]' इति लक्षणसमन्वयः ॥ अ० २, सू०-१३१ ।।
SR No.023450
Book TitleChandonushasan
Original Sutra AuthorN/A
AuthorVijaylavanyasuri, Vijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1969
Total Pages460
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy