________________
[अ० २, सू० १२७ - १२८.] सवृत्तिच्छन्दोऽनुशासनप्रद्योते
११६
१०२४ भेदा भवन्ति, तदुक्तं भरतेन "पङ्क्तयां सहस्त्रं वृत्तानां चतुर्विंशतिरेव तु" [ भ० ना० १५।५७ ] इति ।।
त्रिष्टुभि भौ रो गौ रोचकम् ॥१२७॥
यथा- कुम्मभुवो जयतीह माहात्म्यं तद् वडवामुखतेजसश्वापि । यस्य जगत्प्रलय प्रगल्भोमि-रश्वति रोचकगोचरं सिन्धुः ।। १२७.१ ।।
अतः परमेकादशाक्षरपत्निदायात्रिष्टुप्छन्दसो भेदानाह - त्रिष्टुभि भौ रो गौ रोचकमिति - भगणद्वयं रगणो- गुरुद्वयं च, 'SI SII SIS. SS. ' इत्येवंप्रकारैर्वणैः : कृताः पादा यस्य तत् रोचकं नाम त्रिष्टुब्जातिच्छन्द इत्यर्थः । उदाहरति- यथा - कुम्भभुव इति इह - संसारे, कुम्भभुव:- घटयोनेरगस्यत्स्य मुनेः, वडवामुखतेजसः - वडवाया मुखमिव मुखं यस्य तस्य तेजस:अग्नेः [ वडवानलस्य ] च, माहात्म्यं यस्य मुनेस्तेजसश्च जगत्प्रलयप्रगल्मोमिः - संसारनाशसमर्थं तरङ्गः, सिन्धुः- समुद्रः, रोचकगोचरं - रुचि बुभुक्षापिपासादि विषयत्वम्, अञ्चति - गच्छतीत्यर्थः । जगति सर्वतोऽधिक मगत्स्य मुनेवर्डवानलस्य च महत्वं यत् ताम्यां पीतः समुद्रः, जगत्प्रलयसमर्थोऽपि न तत् कर्तुं प्रभवतीति भाव: । 'कु [s]म्भ [ ] मु[1] वो[s], ज[1]य [1]ती[s]ह[ ], मा [S] हा [S] रम्यं [s]' इति लक्षणसङ्गतिः ॥ अ० २, सू० - १२७ ।।
रः सौ ल्गावच्युतम् ॥१२८॥
यथा - त्वं दधासि विभो ! परमेष्ठिता- मोश्वरत्वमपि त्वयि राजति । अच्युतत्वमपि त्वमुपचितः कोऽपरस्त्वदृते जिन ! देवता ॥ १२८.१ ॥
द्वितीयं प्रभेदमाह - रः सौ लगावच्युतमिति- रगणः सगणद्वयं लघुगुरुचेति, 'SIS. 115. 115. IS' एवं प्रकारैर्वर्णे विहिताः पादा यस्य तत् अच्युतं नाम त्रिष्टुब्जातिच्छन्द इत्यर्थः । उदाहरति- यथा- त्वं दधासोति, हे जिन ! - विभो ! त्वं परमेष्ठिनां परमे - सर्वोच्चे पदे तिष्ठति तच्छील: परमेष्ठी, तस्य भावस्ताम्, अथ च पितामहतां ब्रह्मत्वं दधासि - धारयसि त्वयि ईश्वरत्वम् अपि- सर्जेश्वर्यशालित्वम्, अथ च शिवत्वं राजति- शोभते, त्वम्, बच्युतत्वं - च्युतिरहितत्वम्, अथ च विष्णुत्वम् उपाश्रितः- प्राप्तः, त्वदृते