________________
११८
समृत्तिच्छन्दोऽनुशासनप्रद्योते [अ०२, सू० १२६. ]
प्रकारैर्वर्णैः कृताः पादा यस्य तत् विपुलभुजानामकं पङ्किजातिच्छन्द इत्यर्थः । उदाहरति यथा रिपुवनिता इति रिपुवनिताजन निःश्वसितैः- शत्रुकान्तानां निःश्वासवायुभिः, उष्णतर:- अत्युष्णैः, अविरतं क्लान्ता - म्लायमाना, जयश्री :- विजयलक्ष्मी:, हे चुलुकय ! ते - तव, विपुलभुजाविटपिच्छायां- विपुले भुजे - बाहू एवं विटपिनो, तयोः, छायाम् - अनातपप्रदेशं, भजतिश्रयते, उष्णक्लान्तो जनश्छायामाश्रयत इति स्वभावस्तेन रिपुघातदुःखितानां वनितानामुष्णं निःश्वासः क्लान्ताया जयश्रियो विजयिलुक्यनृपतिभुजच्छायाश्रयणं युक्तमेवेति भाव: । 'रि [1] [0] व [ 1 ]नि[]ता[5]ज [1]न [1]निः[s]वा [s] [s]' इति लक्षणसमन्वयः ॥ अ० २, सू० - १२५ ।।
राजस्गा माला ॥ १२६॥
सजसा गुरुश्च । यथा- गगनाङ्गणे कुमुदषण्ड श्रियमुद्वहन्ति निपतन्त्यः । भवदीक्षणोत्सवसतृष्णाः, नृप ! सुभ्रुवां नयनमालाः ॥ १२६.१ ॥ प्रमितेश्यन्ये ।। १२६.१ ॥ १०।२० ॥
विशं प्रभेदमाह - स्जस्गा मालेति । अर्थमाह- सजसा गुरुश्चेतिसगण-जगण-सगणा गुरुश्च '115. 151. 115. 5. ' इत्येवंप्रकारवर्णैः कृताः पादा यस्य तत् मालानामकं पङ्क्तिजातिच्छन्द इत्यर्थः । उदाहरति- यथा- गगनाङ्गणे इति, हे नृप ! भवदीक्षणोत्सवसतृष्णाः - भवत ईक्षणमेवोत्सवस्तस्मिन् सतृष्णा: - साभिलाषाः, सुभ्रुवां- शोमनभ्रुकुटिशालिनीनां, नयनमाला:नेत्रपङ्कयः, गगनाङ्गणे - आकाशतले, निपतन्त्यः, कुमुदषण्डश्रियं - नीलकुमुदिनीपुष्पवनशोभाम्, उद्वहन्ति - धारयन्तीत्यर्थः । भवन्तमीक्षितुं शतशः पततन्योऽङ्गनानां दृष्टयः स्वप्रभया आकाशे कुमुदिनीपुष्पवनशोभां धारयन्तीति भावः । 'ग[1]ग[1]ना[5]ङ्ग [1]णे[5], कु[1] मु[1][1] [5]ण्ड[5]' इति [ पादान्तस्थस्य वा गुरुत्वानुशासनात् ] लक्षणसमन्वयः । अस्या नामान्तरमाह - प्रनितेत्यन्ये इति - अन्ये केविदाचार्या इदं छन्द प्रमितानाम्ना व्यवहरन्तीत्यर्थः ॥ अ० २, सू० -१२६ ॥
एवं दशाक्षरच्छन्दसो विंशतिर्भेदा उक्ताः | १०|२०|| प्रस्तारक्रमणे तु अस्य