________________
[अ० २, सू० १२४-१२५.] सवृत्तिच्छन्दोऽनुशासनप्रद्योते ११७ अन्तस्तलाबहिर्भवद्रोलम्बमालाव्याजात्, मूर्त- सशरीरं, विरहज- वियोगकालोत्पन्न, दुःखं, तत्कालं- प्रियप्राप्तिसमसमयमेव, वमतीव- उद्धिरतीवेत्युप्रेक्षा । चन्द्रोदये सति कुमुदिनी विकसतीति तदन्तरवरुद्धा भ्रमराः कृष्णवर्णा निःसरन्तीति सा वियोगजं दुःखमिव वमतीति प्रतीयते, दुःखस्यापि कृष्णवर्णनायाः कविसमयसिद्धत्वात् । 'आ[s]सा[5]ध[s], प्रि[1]य[1]मि[1] हश[1]शि [s][s]' इति लक्षणसङ्गतिः । अस्या नामान्तरमपीत्याहकुसुमसमुक्तेित्यन्ये इति- अन्ये आचार्या इदं छन्दः कुसुमसमुदितेति व्यवहरन्तीति भावः ।। अ० २, सू०-१२३ ॥
'मः सौ ग उद्धतम् ॥१२४।। यथा- सर्पद्धिस्तव दिग्जययात्रा- स्वेभिर्देव तुरंगमसैन्यः । प्राज्यरुद्धतमध्वरजस्तां, वृद्धि प्राप न वृन्दमरीणाम् ॥ १२४.१ ॥
अष्टादशं प्रकारमाह- मः सौ ग उद्धतमिति- मगणः सगणद्वयं गुरुश्चेति, 'sss. Is. 5. .' इत्येवं प्रकारैर्वर्णः कृताः पादा यस्य तत् उद्धतं नाम च्छन्द इत्यर्थः । उदाहरति- यथा- सर्पद्भिरिति, हे देव !, तव- भवतः, दिग्जययात्रासु- दिग्विजयप्रयाणेषु, सर्पद्भिः- गच्छद्भिः, एमिः प्राज्य:प्रभूतः, तुरङ्गमसैन्यः- अश्वसेनाभिः, उद्धतम्- उपरि क्षिप्तम्, अध्वरजःमार्गधूलिः, तां वृद्धि प्राप, अरीणां- शत्रूणां, वृन्दं- समूहः,[तैरुद्धतं]तां बृद्धि न प्रापेत्यन्वयः । अध्वरजः इव शत्रुवृन्दमपि उद्धतं किन्तु पूर्वं रजोयथा वृद्धि प्राप्तं तथा परं [अरिवृन्दं] न प्राप्तमित्याश्चर्यम्, समानक्रियया फले भेदस्यायुक्तत्वात् । 'स[5]4 [s]द्भि[s]स्त[1]व[1], दिग्[5]ज [1]य[1]या[s]त्रा[s]' इति लक्षणसमन्वयः ॥ अ० २, सू०-१२४ ।।
नज्यगा विपुलभुजा ॥१२५।। नजया गुरुश्च । यथा- रिपुवनिताजननिःश्वास-रविरतमुष्णतरैः क्लान्ता । मजति चुलुक्य ! जयश्रीस्ते, विपुलभुजाविटपिच्छायाम् ॥ १२५.१ ॥
ऊनविशं प्रभेदमाह- नज्यगा विपुलभुजेति । नज्यगा इत्यस्यार्थमाहनजया गुरुश्चेति- नगण-जगण-यगणा गुरुश्चेति, III. IsI. Iss. ' एवं.