________________
११६
सवृत्तिच्छन्दोऽनुशासनप्रयोते [अ०२, सू० १२२-१२३.]
कुन्दलतां, परिचुम्बन्- परितः कलिकामु विकसितेषु पुष्पेषु पत्रादिषु च मुखं योजयन्, हृष्टः सन् कि न त्रपसे - लज्जसे, येन त्वया, प्राक् - कुन्दस्य विकासात् पूर्वं, मालत्याः कलिकायाम्, अनुरागात्- स्नेहं प्रदर्श्य, तत् तथा तथा तथा, अनेकप्रकारैरित्यर्थः, क्रीडितं विलसितम् पूर्वमन्यत्र स्वस्नेहं प्रदश्यं पश्चादत्र znacna zur gàfa wa: 1 g[s]a[1][s]fg[s], {[5]x:[5], q[1]fz[1] [s]म्बन्] [5] इति लक्षणसंगतिः ॥ अ० २, सू० -१२१ ।।
भत्नगा मृगचपला ॥१२२॥
भतना गुरुश्च । यथा- साधु समाधावविचलता - माश्रय हे मानस ! सततम् । वाञ्छसि यद्यव्ययपदवीं मा कुरु वृत्ति मृगचपलाम् ॥। १२२.१ ॥
षोडशं प्रभेदमाह - भत्नगा मृगचपलेति । भत्नगा इत्यस्यार्थमाहभतना गुरुश्चेति- भगण-तगण - नगणा गुरुश्व 'S I. SSI. 111. 5. ' इत्येवंप्रकारं - वर्णेः कृताः पादा यस्य तत् मृगचपलानामकं पङ्क्तिजातिच्छन्द इत्यर्थः । उदाहरति- यथा- साध्विति, हे मानस ! - चेतः ।, यदि चेत्, अव्ययपदवींअविनाशिस्थानं कैवल्यं, वाच्छसि - समीहसे, तहि समाधी- ध्याने, साधुसम्यक्, अविचलतां - स्थिरतां सततं सर्वदा, आश्रय- धारय, मृगचलांमृगवत् चञ्चलां वृत्ति- कृति, मा कुरु- न विधेहीत्यर्थः, समाधी स्थिरतां विना नित्यपदस्य कैवल्यस्य प्राप्तिरससम्भविनीति भावः । 'सा [s] धु[1], स[0] मा[S][S]व[1]वि[1]च [1]ल [1] ताम् [S]' इति लक्षणसमन्वयः ॥ अ० २, सू०-१२२ ।।
मो नौ गः कुमुदिनी ॥ १२३॥
यया - आसाद्य प्रियमिह शशिनं, निर्गच्छन्द्रमरकुलमिषात् । मूतं दुःखमिव विरहजं, तत्कालं वमति कुमुदिनी ॥ १२३.१ ॥ कुसुमसमुदितेत्यन्ये
।। १२३.१ ।।
सप्तदशं प्रकारमाह- मो नौ गः कुमुदिनीति- मगणो नगणद्वयं गुरुव ' sss. 111. 111. 5' इति, एवंप्रकारंवंगः कृताः पादा यस्य तत् कुमुदिनीनामकं पङ्क्तिः जातिच्छन्द इत्यर्थः । उदाहरति- मथा - आसाद्येति, कुमुदिनी - कुमुद्वती, इह प्रियं शशिनं - चन्द्रम्, आसाव- प्राप्य, निर्गच्छद्रमरकुलमिषात्