________________
११५
[अ० २, सू० १२०-१२१.] सवृत्तिच्छन्दोऽनुशासनप्रद्योते
तो जौ ग उपस्थिता ॥१२०॥ यथा-एषा भवतः समराङ्गणे, राजन जयसिद्धिरुपस्थिता। कीतिः कुपितेव भवत्प्रिया, सद्योऽभिससार दिगन्तरम् ॥ १२०.१ ॥ अत्र द्वाभ्यां यतिरित्येके ॥ १२०.१ ॥ ___ चतुर्दशं प्रकारमाह-- तो- जौ ग उपस्थितेति- तगणो जगणद्वयं गुरुश्च 'ssi. Is. In ' इत्येवंप्रकारैर्वः कृताः पादा यस्य तत् उपास्थितानामकं पङ्किजातिच्छन्द इत्यर्थः । उदाहरति- यथा- एषा भवत इति- हे राजन् ! समराङ्गणे- संग्रामभूमौ, भवतः- तव, जयसिद्धिः- विजयलक्ष्मीः , उपस्थिता-प्राप्ता, [ इति हेतोः ] भवत्प्रिया- तवाधिकवत्सला कीर्तिः कुपिता इव- सपत्नीसमागम दृष्टया क्रुद्धा इव, सद्य:- तत्कालमेव, दिगन्तरं- सर्वा दिश: प्रति, अभिससार- पलायिता, स्वप्रियमन्यसङ्गतं दृष्ट्वा कोपः, कोपाचान्यत्र गमनं स्त्रीणां स्वभावः । स्वाभाविकेनानेनार्थेन संग्रामे विजयेन तव कीर्तिदिगन्तरव्यापिनी जातेति व्यङ्गयम् । 'ए[s]षा[s], भ[1][1]तः[s], स[]म[1] रा [s]ङ्गाणे[s]' इति लक्षणसमन्वयः । अत्र मतान्तरमाह- अत्र द्वाभ्यां यतिरित्येके इति- अत्र प्रतिपादं द्वितीयाक्षरे यतिरित्येके आचार्या आहुः, तथा च द्वितीयाक्षरे- पादान्ते च यतिरिति भावः, तथा च 'एषा, राजन् !, कीर्तिः, सद्यो,' इत्येतेषु स्थानेषु विश्रामः कार्यः । एतच्च पिङ्गलछन्दःशास्त्रे "उपास्थिता त्जी ज्यो" [ ६।१४ ] इति सूत्रव्याख्यायां हलायुधेनाप्युक्तम्- "अत्र द्वाभ्यामष्टाभिश्च यतिरित्याम्नायः" इति । तथा च सम्प्रदायप्राप्तोऽयमर्थो न क्वापि निबद्ध इत्यायातम् ।। अ० २, सू०-१२० ॥
मस्गाः कलिका ॥१२१|| रमसा गुरुश्च । यथा- कुन्दष्टि हृष्ट: परिचुम्बन, कि न रे रोलम्ब त्रपसे स्वम् । तत्तथा येन प्रागनुरागात्. कोडितं मालत्याः कालिकायान् ॥१२१.१॥
पञ्चदशं प्रकारमाह- रमस्गाः कलिकेति । रमस्गा इत्यस्यार्थमाहरमसा गुरुश्चेति- रगण-मगण-सगणा गुरुश्च 'Sis. sss.15 5' इत्येवंरूपर्वणः कृताः पादा यस्य तत् कलिकानामकं पङ्क्तिजातिच्छन्द इत्यर्थः । उदाहरतियथा- कुन्दयष्टिमिति- हे रोलम्ब !-- भ्रमर !, त्वं- भवान्, कुन्दयष्टिं