SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ सवृत्तिच्छन्दोऽनुशासनप्रद्योते [अ० २, सू० ११८-११६.] भनौ म्गो बन्धूकम् ॥११८॥ मनमा गुरुश्च । यथा- एतदभिनवभास्वद्विम्बं, शोणरुचिरुचिरं प्राग्वघ्वाः । शेखरितनवबन्धूकश्री-बन्धुपदमधुना संधत्ते ॥ ११८.१ ॥ द्वादशं प्रकारमाह- नौ म्गो बन्धूकमिति । स्पष्टयति- भमना गुरुश्चे. ति- भगण-नगण-मगणा गुरुश्च, 'sis, Im, sss, s' इत्येवंप्रकारवर्णविहिताः पादा यस्य तत् बन्धूकमिति पङ्क्तिजातिच्छन्द इत्यर्थः । उदाहरति-यथाएतदभिनवेति- प्राग्वध्वाः- पूर्वदिशो वधूस्वरूपायाः, एतत्- परिदृश्यमानं, शोणरुचिरुचिरं- रक्तवर्णतया सुन्दरम्, अभिनवभास्वद्विम्बं- अभिनवः- अचिरोदितः, भास्वान्- सूर्यः, तस्य बिम्बं- मणुलं, स एव बिम्बं मुखमिति वा, अधुना- सम्प्रति, शेखरितनबबन्धूकश्रीवन्धुपदं- शेखरितं- मौलो धृतं, यद् नवं- प्रत्यग्रविकसितं, बन्धूकं- रक्तवर्ण पुष्पम्, तस्य या श्री:- शोभा तस्या बन्धुपदं- सकुल्यत्वं, संधत्ते- धारयति । 'ए[5]त[1]द[1]भि[1] न[1][]]भा[5] स्व[s] द्वि[s]म्बं[s]' इति लक्षणसमन्वयः ।। अ० २, सू०-११८ ।। नज्गा मनोरमा ॥११॥ मरजा गुरुश्च । यथा- निखिलदीनदुःखदारिणी, सकलबन्धुसंविभागकृत् । गुणिजनामृतार्णवोपमा, भवति सा रमा मनोरमा ॥ ११६.१ ॥ त्रयोदशं प्रकारमाह- प्रज्गा मनोरमेति । व्याख्याति- नरजा गुरुश्चेति- नगण-रगण-जगणा गुरुश्च, 'n, is, I51, 5' इत्येवंप्रकारवर्गविहिताः पादा यस्य तत् मनोरमानामकं पङितजातिच्छन्द इत्यर्थः । उदाहरति-यथानिखिलेति-निखिलदीनदुःखदारिणी- निखिलानां- सर्वेषां, दीनानां, दुःखस्य दारिणी- नाशिका, सकलबन्धुसंविभागकृत्-सकलानां बन्धूनां कृते संविभागंसमानभोजनादिव्यवस्थां करोतीति सा गुणिजनामृतार्णवोपमा- गुणिजनानां कृते अमृतार्णवोपमा- अमृतसमुद्रसदृशी, [या] रमा- लक्ष्मीः , सा मनोरमामनसो मोदजननी, भवति- जायत इत्यर्थः । दीनहिता सर्वभोग्या गुणिजनसंतोषिणी च लक्षमीरानन्दाय, तद्विपरीता दुःखायेति भावः । ' निखि[i]ल[i]दी[s]न [1]दुः[5]ख[1]दा[5]रि[0]णी[s]' इति लक्षणसङ्गतिः ॥म.
SR No.023450
Book TitleChandonushasan
Original Sutra AuthorN/A
AuthorVijaylavanyasuri, Vijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1969
Total Pages460
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy