________________
[अ० २, सू० ११६-११७.] सवृत्तिच्छन्दोऽनुशासनप्रद्योते ११३
जिगावुषिता ॥११६॥ जत्रयं गुरुश्च । यथा- स कि वद नीचसमाश्रयो, न कि कथय स्थितिरुनते। म चापलमुज्झसि लक्ष्मि ! कि, न चेद् उषिता जलधामनि ॥ ११६.१ ।।
दशमं प्रकारमाह- जिगावुषितेति । जिगावित्यस्यार्थमाह- जत्रयं गुरुश्चेति जगणत्रयं गुरुश्च 151, ISI, ISI, s.' इत्येवंप्रकारर्वर्णेविहिताः पादा यस्य तत् उषितानामकं पङितजातिच्छन्द इत्यर्थः । उदाहरति- यथा-स किं वदेति, हे लक्ष्मि !, स- प्रसिद्धः, नीचसमाश्रयः- नीचजनसङ्गतिः, नीचस्थानस्थितिश्च, किं ? कुतः कारणात्, इति वद- कथय, उन्नते- उच्चैःप्रकृतिके जने, उच्चस्थाने च, स्थितिः किं न- कस्मान्नेति कथय, चापलं- नीचाश्रयणादिरूपं चाश्चल्यं, कि न, उज्झसि- त्यजसि, चेत्- यदि, जलधामनि- समुदे, जडस्य गृहे वा. [ डलयोरेक्यात् ], न उषिता- न कृतनिवासा स्याः । यदिदं ते सर्व चाञ्चल्यं नीचर्गामिनीत्वादि च तत् सर्वं जलधाम्नि निवासादेव जाडयस्यासङ्कादिति भावः । 'स[i], किं[s], व[1]द[1], नी[5]च[1]स [1]मा[5] श्र[1]यः[5]' इति लक्षणसङ्गतिः ॥ अ० २, सू०-११६ ।।
रः सौ गो मणिरङ्गः ॥११७|| यथा- धीमतां हि गुणो विशदश्री-र्जायते गुणिसंगमवाप्य । शोभते नितरां न किमङ्गे, कुङ्कुमारुणिते मणिरङ्गः ॥ ११७.१ ॥
एकादशं प्रकारमाह- रः सौ गो मणिरङ्गः इति- रगणः सगणद्वयं गुरुश्च, '15, 15, 15, 5' इत्येवंप्रकारैर्वर्णेविहिताः पादा यस्य तत् मणिरङ्गनामक पङ्क्तिजातिच्छन्द इत्यर्थः । उदाहरति- यथा- धीमतां हीति- गुणिसङ्गगुणिभिः सह सङ्गतिम्, अवाप्य- अधिगत्य, धीमतां- बुद्धिमतां जनानां, गुणः, विशदश्री:- समुजवलशोभः, जायते। अर्थान्तरन्यासेनैतत् समर्थयति- कुकुमारुणिते-ककुमेनेषद्रक्ततां नीते, अङ्गे- शरीरे, मणिरङ्ग:- माल्यादिस्थितस्य मणे रागः, नितराम्- अत्यथं, न शोभते किम् ?- अपि तु शोभत एव । गुणिनोः परस्परसङ्गत्योभयोगुणस्य पृद्धिरेवेति तात्पर्यम् । 'धी[s]म[1]तां[s], हि[1], गु[1]णो[s], वि[1] श[1]द[s]श्रीः[s]' इति लक्षणसमन्वयः ।। अ० २, सू०-११७ ॥